SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४० काव्यमाला । 'अहो महेश्वरस्यास्य कापि कान्तिः' इति राजधानीरूपाद्देशाद्राजनि । 'चित्रभानुर्विभात्यह्नि' इति कालविशेषाद्रवौ । ‘मित्रं हन्तितरां तमः परिकरं धन्ये दृशौ मादृशाम्' इति व्यक्तिविशेषात्सुहृदि च प्रतीतिः । : स्वरात्त्वर्थविशेषप्रतिपत्तिः काव्यमार्गेऽनुपयोगिनीति नोदाह्रियते । ' 'मश्नामि कौरवशतं समरे न कोपात्' इति काकुरूपात्स्वराद्भवत्यर्थविशेषप्रतिपत्तिः । आदिग्रहणादभिनयोपदेशनिर्देश संज्ञेङ्गिताकारा गृह्यन्ते । अभिनयो यथा Spod 'द्दहमित्तत्थणिया एद्दहमित्ते हि अस्थिवत्ते हि । ऐयावत्थं पत्ता एत्तियमित्ते हि दिहि ||' अपदेशो यथा BETTER ONE OF TH * 'इतः स दैत्यः प्राप्तश्रीर्तेत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् ॥' निर्देशो यथा - ' भर्तृदारिके, दिष्ट्या वर्धामहे यदत्रैव कोऽपि कस्यापि तिष्ठतीति मामङ्गुलीविलासेनाख्यातवत्यः ।' संज्ञा यथा 'अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् । वीक्षितेन परिगृह्य पार्वती मूकम्पभयमुत्तरं ददौ ||' इङ्गितं यथा 'कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम् । अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥' आकारो यथा - 'निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते। न विद्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥' १. ' एहमेत्तावस्था' इति काव्यप्रकाशे. २. 'एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम् । एतावदवस्थां प्राप्ता एतावन्मात्रैर्दिवसैः ॥'..
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy