SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३१६ प्रयोगे निःसाध्वसत्वं प्रागल्भ्यम् । प्रयोगे कामकलादौ । चातुःषष्ठि इत्यर्थः । यदाह -- काव्यमाला | 'अन्यदा भूषणं पुंसः शमो लज्जेव योषितः । पराक्रमः परिभवे वैजात्यं सुरतेष्विव ॥' मनःक्षोभपूर्वकोऽङ्गसादः साध्वसं तदभावः प्रागल्भ्यम् । 'यथा -- 'आशु लङ्घितवतीष्टकरा - ' इति । अत्र शोभाकान्तिदीप्तयो बाह्यरूपादिगता एव विशेषा आवेगचापलामर्षत्रासानां त्वभाव एव माधुर्याद्या धर्मा न चित्तवृत्तिखभावा इति नैतेषु भावशङ्कावकाशः । शाक्याचार्य राहुलादयस्तु - मौग्ध्यमद्भाविकत्वपरितपनादीनप्यलंकारानाचक्षते । तेऽस्माभिर्भरतमतानुसारिभिरुपेक्षिताः ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामलंकारचूडामणिसंज्ञखोपज्ञकाव्यानुशासनवृत्तौ नायकवर्णनः सप्तमोऽध्यायः समाप्तः । 1 अष्टमोऽध्यायः । अथ प्रबन्धात्मकान्काव्यभेदानाह काव्यं मेक्ष्यं श्रव्यं च । 'नानृषिः कविः 'कवृ वर्णे' इति च दर्शनाद्वर्णनाच्च कविस्तस्य कर्म काव्यम् । एवं च दर्शने सत्यपि वर्णनाया अन्तर्भावादितिहासादीनां न काव्यत्वमिति तल्लक्षणं न वक्ष्यते । तथा चाह भट्टतोतः - ‘नानृषिः कविरित्युक्तमृषिश्च किल दर्शनात् । विचित्रभावधर्माशतत्त्वंप्रख्या च दर्शनम् ॥ स तत्वदर्शनादेव शास्त्रेषु पठितः कविः । दर्शनाद्वर्णनाच्चाथ रूढा लोके कविश्रुतिः ॥ तथा हि दर्शने स्वच्छे नित्येऽप्यादिकवेर्मुनिः । नोदित कविता लोके यावज्जाता न वर्णना ||' इति प्रेक्ष्यमभिनेयम् ।
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy