SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ७ अध्यायः ] प्रौढाधीरा संतर्जनेन यथा' तथाभूदस्माकं प्रथममविभिन्ना तनुरियं ततोऽनु त्वं प्रेयानहमपि हताशा प्रियतमा । इदानीं त्वं नाथो वयमपि कलत्रं किमपरं मयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥' सैव साघाता यथा—‘कोपात्कोमलबाहुलोल-' इति । परस्त्रीलक्षणमाह i काव्यानुशासनम् । परोढा परस्त्री कन्या च । परेणोढा परस्य स्त्री परस्त्री । सा च नाङ्गिनि रसे उपकारिणीति नास्याः प्रपञ्चः कृतः । ऊढेत्युपलक्षणम् । अवरुद्धापि परस्त्रीत्युच्यते । परोढा यथा - 'दृष्टि हे प्रतिवेशिनि-' इति । कन्या तु पित्राद्यायत्तत्वादनूढापि परस्त्री । यथा'दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यमभ्यस्यते पूर्वाकारमुरस्तथापि कुलयोः शोभां नवामीहते । नो धत्ते गुरुतां तथाप्युपचिताभोगा नितम्बस्थली तन्व्याः स्वीकृतमन्मथं विजयते नेत्रैकपेयं वपुः ॥' सामान्यां लक्षयति गणिका सामान्या । कलाप्रागल्भ्यधौर्त्याभ्यां गणयति कलयति गणिका सामान्या सगुणस्य निर्गुणस्य च साधारणी केवलधनलोभालम्बनेन कृत्रिमप्रेमत्वात् । यथा'गाढालिङ्गनपीडितस्तनतटं खिद्यत्कपोलस्थलं 'संदष्टाधरमुक्तसीत्कृत लसद्भूभ्रान्तनृत्यत्करम् । चाटुप्रायवचोविचित्रभणितं घातैरुतैश्चाङ्कितं - ३०५ · वेशानां धृतिधाम पुष्पधनुषः प्राप्नोति धन्यो रतम् ||' खपरस्त्रीणामवस्था आहस्वाधीनपतिका प्रोषितभर्तृका खण्डिता कलहान्तरिता वास १. 'कुचयोः' स्यात्. ३९
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy