SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ७ अध्यायः ] नायकभेदानाह काव्यानुशासनम् । २९९ धीरोदात्तललितशान्तोद्धतभेदात्स चतुर्धा । स इति नायकः । धीरशब्दः प्रत्येकमभिसंबध्यते । तेन धीरोदात्तः, धीरललितः, धीरशान्तः, धीरोद्धत इति । दक्षिणघृष्टानुकूलशठभेदादेकैकश्चतुर्धा । एते शृङ्गाररसाश्रयिणो भेदाः । इति षोडश भेदा नायकस्य । धीरोदात्तादींल्लक्षयति गूढगर्वः स्थिरो धीरः क्षमावान् अविकत्थनः महासत्त्वो दृढव्रतो धीरोदात्तः । गूढगर्यो विनयच्छन्नावलेपः । अविकत्थनोऽनात्मश्लाघापरः । महासत्त्वः क्रोधाद्यनभिभूतान्तःसत्त्वः । दृढव्रतोऽङ्गीकृतनिर्वाहकः । यथा – रामादिः । कलासक्तः सुखी शृङ्गारी मृदुर् निश्चिन्तो धीरललितः । कलासु गीताद्यास्वासक्तः । सुखी भोगप्रवणः । शृङ्गारप्रधानः सुकुमाराकारः । सचिवादिसंविहितयोगक्षेमत्वाच्चिन्तारहितः । यथा – वत्सराजः । विनयोपशमवान् धीरशान्तः । --- यथा मालतीमाधव-मृच्छकटिकादौ – माधव - चारुदत्तादिः । शूरो मत्सरी मायी विकत्थनश् छद्मवान् रौद्रोऽवलिप्तो धीरोद्धतः । मत्सरी असहनः । मन्त्रादिवलेनाविद्यमानवस्तुप्रकाशको मायी । छद्म वञ्चनमात्रम्। रौद्रश्चण्डः। अवलिप्तः शौर्यादिमदवान्। यथा —– जामदग्न्यरावणादिः । 'देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः । सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ ॥ देवा धीरोद्धता इति । अत्र हि 'धीरोदात्तं जयति चरितं रामनाम्नश्च विष्णोः ' इत्यादेर्दर्शनाज्जनकप्रभृतीनां रामादीनां च न धीरललितत्वानुचितत्वमिति धीरललितत्वं राज्ञ एव वर्णनीयं नान्यस्य । सेनापत्यमात्ययोधीरोदात्तत्वमेव । देवानां धीरोद्धतत्वमेव । द्वि
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy