SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ७ अध्यायः ] नीचजुगुप्सा यथा 'उत्तालताडकोत्पातदर्शनोऽप्यप्रकम्पितः । प्रयुक्तस्तत्प्रमाथाय सैणेन विचिकित्सति ॥ काव्यानुशासनम् । उत्तमस्पर्धा यथा- 'एतां पश्य पुरस्तटीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः । इत्याकर्ण्य कथाद्भुतं हिमनिधावद्वौ सुभद्रापते र्मन्दं मन्दमकारि येन निजयोदोर्दण्डयोर्मण्डनम् ॥' धीरे गतिदृष्टी सस्मितं वचो विलासः । यथा 'दृष्टिस्तृणीकृतजगत्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् । कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥ मृदुश्टङ्गारचेष्टा ललितम् । यथा माधुर्यम् । यथा- ‘कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् । रजोभिरन्तः परिवेपबन्धि लीलारविन्दं भ्रमयांचकार ॥' क्षोभेऽप्यनुवणं माधुर्यम् । महत्यपि युद्धनियुद्धव्यायामादौ क्षोभहेतौ अनुल्यणत्वं मधुरा चेष्टा 'कपोले जानक्याः करिकलभदन्तद्युतिमुपि स्मरस्मेरं गण्डोडुमरपुलकं वक्रकमलम् । मुहुः पश्यशृण्वन्रजनिचरसेनाकलकलं जटाजूटग्रन्थि द्रढयति रघूणां परिवृढः ॥' १. 'सत्यपि ' स्यात्. ૩૮ २९७
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy