SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः ] काव्यानुशासनम् । पृष्टे यथा— 'कोऽलंकारः सतां शीलं न तु काञ्चननिर्मितम् । किमादेयं प्रयत्नेन धर्मो न तु धनादिकम् ॥' ' का विसमा दिव्वगई किं लद्धं जं जणो गुणग्गाही । किं सोक्खं सुकलत्तं किं दुग्गे जं खलो लोओ ॥' अत्र दैवगतिरेव विषमेत्यादिरन्यापोहः प्रतीयते । अपृष्टे यथा 'धेहि धर्मे धनधियं मा धनेषु कदाचन । सेवख सद्गुरूपज्ञां शिक्षां मा तु नितम्बिनीम् ॥' 'कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति || यथा वा 'राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥' २८७ 'दानं वित्ताद्रसं वाचः कीर्तिधर्मौ तथायुषः । परोपकरणं कायादसारात्सारमुद्धरेत् ॥' 'पोढेमहिलाण जं सुट्टु सिक्खियं तं सु होइ । जं जं असिक्खियं नववहूण तं तं दिहिं देई ||' कौटिल्यं कचनिचये एवेत्यादि, राज्ये सारं च वसुधैवेत्यादि, एषु इत्यादेश्चान्यथापि दर्शनादिति ॥ राज्ये सारमिति । अत्र सारालंकारः कैश्चिदुक्तः, स चान्यापोहमन्तरेण न चमत्कारकारीति परिसंख्यैव युक्तोऽलंकारः ॥ दानं वित्तादिति, पोढमहिलाणेत्यत्रापि केनचित्सारालंकार उक्तस्तत्रापि अन्यापोहकृतं चारुत्वमिती ‘का विषमा दैवगतिः किं लब्धं यज्जनो गुणग्राही । किं सौख्यं सुकलनं किं दुःखं यत्खलो लोकः ॥ [इति छाया . ] २. ' दुक्खं' का० प्रदी०. ३. 'प्रौढमहिलानां यत्सुष्ठु शिक्षितं तद्वतेषु भवति । यद्यदशिक्षितं नववधूनां तत्तत्" " ददाति ॥ [ इति छाया. ]
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy