SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ५ अध्यायः ] काव्यानुशासनम् । २११ तृतीयश्चतुर्थे इति । प्रथमश्चतुर्थे द्वितीयस्तृतीय इति द्वौ । अर्धा वृत्तिः श्लोकावृत्तिश्चेति । द्वे इति । यथा - 'चक्रं दहतारं चक्रन्द हतारम् । खड्गेन तवाजौ राजन्नरिनारी ॥' केश्चिद्राजानमाह – समूहम् । नता । अरिसंबन्धि । रुरोद | भग्नाशा अत्यर्थम् ॥ 'संयतं याचमानेन यस्याः प्रापि द्विपा वधः । संयतं याच मानेन युनक्ति प्रेणताञ्जनम् ॥' रणम् । देव्याः । जितेन्द्रियम् । पूजया ज्ञानेन वा ॥ 'प्रभावतोsनाम न वासवस्य प्रभावतो नाम नवासवस्य । प्रभावतो नाम नवा सवस्य विच्छित्तिरासीत्त्वयि विष्टपस्य || ' प्रभावात् । शक्रस्य । तेजखिनः । नामः नमतेः कारकः । अनाम नमनरहितः । अतश्च विष्टपस्य प्रभौ स्वामिनि त्वयि नवसोमरसस्य सवस्य यज्ञस्य नवा विच्छित्तिरासीत् । नवेत्येक एव निपातः प्रतिपेधार्थः । नामेत्यभ्युपगमे निपातः । इत्यादि ॥ अर्धावृत्तिर्यथा--- 'सा रक्षतादपारा ते रसकृद्गौर वाधिका । सारक्षतादपारातेरसकृद्गौरवाधिका ॥' I सा देवी । त्रायताम् । अनन्ता । तव । रागकृदभिमतं वस्त्वित्यर्थः । वाग्रूपा । पालिनी । उत्कृष्टक्षतेः । अपगतविपक्षात् । अविरतम् । गौरवेणाधिका सर्वेषां गुरुरित्यर्थः ॥ श्लोकावृत्तिर्यथा ' स त्वारं भरतो वश्यमवलं विततारवम् । सर्वदा रणमानैपीवानलसमस्थितः || १. कश्चिन्नृपमाह - हे राजन् तव संबन्धिना खड्गेनाजी रणे आरं रिपुसंबन्धि चक्रं समृहं अरं शीघ्रं दहता नता अरिनारी रिपुस्त्री हता भर्तृवधेन ताडिता सती चक्रन्द कन्दितवतीत्यर्थः' इति रुद्रटालंकारव्याख्या. २. 'प्रणतं जनम्' स्यात्.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy