SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २०८ काव्यमाला 1. असकृद्यथा 'वस्त्रायते नदीनां सितकुसुमधराः शक्रसंकाशकाशाः काशाभा भान्ति तासां नवपुलिनगताः स्त्रीनदीहंस हंसाः । हंसाभाम्भोदमुक्तस्फुरदमलवपुर्मेदिनीचन्द्रचन्द्र - चन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां कालकालः ॥' पदस्यैकस्य सकृद्यथा— 'वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः । सुधाकरः क नु पुनः कलङ्कविकलो भवेत् ॥ ' न भवति भवति च न चिरं भवति चिरं चेत्फले विसंवदति । कोपः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम् ॥' अनेकस्य सकृद्यथा 'यस्य न सविधे दयिता, दवदहनस्तुहिनदीधितिस्तस्य । ' यस्य च सविधे दयिता, दवदहनस्तुहिनदीधितिस्तस्य ॥' असकृद्यथा 'किंचिद्वच्मि न वच्मि वच्मि यदि वा किं वच्मि वच्मीदृशं दृश्यन्ते न भवादृशेषु पतिषु खेषामदोषे दमाः । ते किं सन्ति न सन्ति सन्ति यदि वा के सन्ति सन्तीदृशाः सर्वस्तेऽद्य गुणैर्गृहीतहृदयो लोकः कृतो वर्तते ॥' सत्यर्थेऽन्यार्थानां वर्णानां श्रुतिक्रमैक्ये यमकम् । आवृत्तिरिति वर्तते । सत्यर्थे भिन्नार्थानां वर्णानां खरसहितव्यञ्जनाना षडिति । अनुप्रासयमकचित्रश्लेषवक्रोक्तिपुनरुक्ताभासान् ॥ यस्य न सविधे इति । अत्र पूर्वार्धे दवदहनत्वं विधेयं तुहिनदीधितित्वं चानुवाद्यम् । तदुभयमप्युत्तराधें विपरीतं ज्ञेयमिति ॥ किंचिद्वच्मीति । भवादृशेषु पतिषु सत्सु स्वेषामात्मीयानामदोषेदमादोषं विना सर्वस्वापहारिणः केऽपि न दृश्यन्ते केवलं त्वदीया एव गुणा ईदृशाः सन्ति । एतदेव सवितर्कमाह - ते किं सन्तीति । हृदयं हि सर्वस्य सर्व
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy