SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ २०० काव्यमाला। भरतः । यथा---'ददृशुभरदेशस्थां सीतां वल्कलधारिणीम् । अङ्गदाहादनङ्गस्य रति प्रवजितामिव ॥' तदिदं माधुर्यसाधारणमिति वामनीयाः । तस्मात्-'औज्ज्वल्यं कान्तिः'। यदभावे पुराणी बन्धच्छायेयमिति व्यपदिशन्ति । यथा-'स्त्रीणां केतकगर्भपाण्डुसुभगच्छन्दावदातप्रभे मन्दं कुड्मलिताः कपोलफलके लावण्यनिष्पन्दिनि । अन्यां कामपि कामिनीयककलामातन्वते नूतनां शीतांशोसिकन्दकन्दलशिखामुग्धश्रियो रश्मयः॥' ओजोऽप्योज्ज्वल्ययोगात्तर्हि कान्तिः । तस्मालोकसीमानतिक्रमः कान्तिरिति दण्डी । सा च द्विधा वार्तावर्णनयोः । तत्रोपचारवचनं वार्ता । प्रशंसावचनं वर्णना। वार्ता यथा-'एते वयममी दाराः कन्येयं कुलजीवितम्। ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ।' वर्णना यथा-'तदाननं निर्जितचन्द्र कान्ति कन्दर्पदेवायतनं मनोज्ञम् । प्रदक्षिणीकर्तुमितः प्रवृत्ते विलोचने मुग्धविलोचनायाः ॥' लोकसीमानतिक्रमः पुनरकान्तिः । तत्र वार्ता यथा--'मम दृष्टस्य राजेन्द्र तव दीर्पण चक्षुषा । चरणद्वितयस्याग्रे नित्यं लुठति चन्द्रमाः॥' वर्णना यथा-वदनस्य तवेणाक्षि लक्ष्यते पुरतः शशी। पिण्डीकृतेन बहुना कज्जलेनेव निर्मितः॥'सेयमतिशयोक्तेर्यन्त्रणा न पुनर्गुणान्तरमिति । अर्थगुणस्तु 'दीप्तरसवं (पुनः) कान्तिः' इति वामनः । थथा-'प्रेयान्सायमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन यात्युन्मनाः । तावत्प्रत्युत पाणिसंपुटलसन्नीवीनिबन्धं धृतो धावित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ॥' रौद्रादयो दीप्ता रसास्ततोऽन्ये तु शृङ्गारादयस्तद्विपरीतास्तनिबन्धनमकान्तिस्तर्हि स्यात् । अथ वा व्यङ्ग्यं रसादिस्वरूपनिरूपणेनैव कान्तिः खीकृतेति ॥ ओजःप्रसादमधुरिमाणः साम्यमौदार्य च पञ्चेत्यपरे । तथा हि । यददर्शिविच्छेदं पठ. तामोजः, विच्छिद्य पदानि पठतां प्रसादः, आरोहावरोहतरङ्गिणि पाठे माधुर्यम् , ससौष्ठवमेव स्थानं पठतामौदार्यम् , अनुच्चनीचं पठतां साम्यमिति ॥ तदिदमलीकं कल्पनातन्त्रम् यद्विषयविभागेन पाठनियमः स कथं गुणनिमित्तमिति छन्दोविशेषनिवेश्या गुणसंपत्तिरिति केचित् । तथा हि । स्रग्धरादिष्वोजः । यथा-'ताम्यत्यामजमजन्मणिममृणफणाचक्रवाले फणीन्द्रे यत्सेनोद्दामहेलाभरचलितमहाशैलकीलां बभार । कृच्छत्पातालमूलाबिलबहलनिरालम्बजम्बालनिष्ठः पृष्ठाश्लीलप्रतिष्ठामवनिमवनमन्कर्परः कूर्मराजः ॥' इन्द्रवज्रोपेन्द्रवज्रा दिषु प्रसादो यथा-'यथा यथा सापदमङ्गकेषु प्रमोदि. लक्ष्म्या निदधे मदस्य । तथा तथा कार्मुकमाततज्यं प्रसूनधन्वाकलयांचकार ॥' मन्दाक्रान्तादिषु माधुर्य यथा-'किं व्यापारैः-' इति ॥ शार्दूलादिषु समता यथा'गाहन्तां महिषा निपानस लिलं शृङ्गैर्मुहुस्ताडितं छायावद्ध कदम्बकं मृगकुलं रोमन्थमभ्य १. 'यन्मनःश्रोत्रविषयमाह्लादयति हीन्दुवत् । लीलाद्यर्थोपपन्नां वा तां कान्ति कवयो विदुः ॥' इत्येवमुपलभ्यते. २. 'च्छेदा' स्यात्. ३. 'कामनीयक' स्यात्. ४. 'सीमातिक्रमः' स्यात्. ५. 'नितम्ब' वामनसूत्रवृत्तौ. ६. 'कृच्छात्' स्यात्. ७. 'नमत्कर्परः' स्यात्..
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy