SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १९४ काव्यमाला। ध्यसे इति विधौ वाच्ये परिबोधित इत्युक्तमिति परिवृत्तविधित्वमपि । अत्र चान्वर्थवलादेवाधिगतेः पदादिदोषाणां विशेषलक्षणं न प्रणीतम् ॥ अथापवादानाहनानुकरणे। दोषा इत्यनुवर्तते । अनुकरणविषये निरर्थकादयः शब्दार्थदोषा न भवन्ति । उदाहरणं प्रागेव प्रदर्शितम् ॥ वक्रायोचिये च। वक्तप्रतिपाद्यव्यङ्गचवाच्यप्रकरणादीनां महिम्ना न दोषो न गुणः । तथोदाहृतम् ॥ कचिद्गुणः। वाद्यौचित्ये क्वचिद्गुण एव । तथैवोदाहृतम् ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामलंकारचूडामणिसंज्ञखोपज्ञकाव्यानुशा सनवृत्तौ दोषविवेचनो नाम तृतीयोऽध्यायः । चतुर्थोऽध्यायः । सगुणौ शब्दार्थों काव्यमित्युक्तम् । गुणानां च रसोत्कर्षहेतुत्वं सामान्यलक्षणं प्रतिपादितम् । इदानीं तद्भेदानाहमाधुर्योजाप्रसादास्त्रयो गुणाः। त्रयो न तु पञ्च दश वा, लक्षणस्य व्यभिचारादुच्यमानगुणेष्वेवान्तर्भावात्, दोषपरिहारेण स्वीकृतत्वाच्च । गुणा इति रसस्य गुणाः शब्दार्थयोस्तु भक्त्या इत्युक्तमेव । न तु दश पञ्च वेति । अयं भावः-माधुयोजःप्रसादा एव गुणाः, ते च मुख्यवृत्त्या रसस्यैवेति प्राक् सामान्यलक्षणे निर्णीतम् । ततश्चैते शब्दार्थाश्रयखेनान्ये च गुणा यत्कैश्चन प्रतिपाद्यन्ते तन युक्त मिति । तथा हि-'ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयो वन्धगुणा दश' इति केचित् । तत्र 'अवगीतस्य १. टीकायां तु 'दश पञ्च वा' इत्युपलभ्यते, व्याख्यायते च तेनैव क्रमेण. तस्मात् 'पञ्च दश' इति पाठो लेखकप्रमादजो भवेत्. १. मूले तु 'पञ्च दश वा' इत्युपलभ्यते. ।
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy