SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् । 'अनणुरणन्मणिमेखलमविरतसिञ्जानमञ्जुमञ्जीरम् | परिसरणमरुणचरणे रणरणक्रमकारणं कुरुते ॥ अत्र वर्णसावर्ण्यमात्रं न पुनर्वाच्यवैचित्र्यकणिका काचिदस्तीत्यपुष्टा र्थत्वम् ॥ ३ अध्यायः ] पूर्वापरव्याघातो व्याहतत्वम् । यथा- 'जहि शत्रुकुलं कृत्स्नं जय विश्वंभरामिमाम् । न च ते कोऽपि विद्वेष्टा सर्वभूतानुकम्पिनः ॥' अत्र शत्रुवधो विद्वेष्यभावेन व्याहतः ॥ अवैदग्ध्यं ग्राम्यत्वम् । यथा - ✓ 'स्वपिति यावदयं निकटे जनः, स्वपिमि तावदहं, किमपैति ते । इति निगद्य शनैरनुमेखलं मम करं खकरेण रुरोध सा ॥' व्रीडादिव्यञ्जकत्वमश्लीलत्वम् । यथाV ' हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः । यथाशु जायते पातो न तथा पुनरुन्नतिः ॥' एतद्वाक्यं खलेषु प्रयुज्यमानं शेफसि प्रतीतिं जनयति । इहान्वयव्यतिरेकाभ्यामर्थस्यैवाश्लीलत्वं पूर्वत्र तु पदवाक्ययोरिति विवेकः ॥ साकाङ्क्षत्वम् । यथा - 'अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः, प्रत्युत द्रुह्यन्दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया । १८५ उत्कर्षं च परस्य, मानयशसोर्विस्रंसनं चात्मनः, स्त्रीरत्नं च जगत्पतिर्दशमुखो देवः कथं मृष्यते ॥' अत्र स्त्रीरत्नमुपेक्षितुमित्याकाङ्क्षति न हि परस्येत्यनेन संबन्धो योग्यः । · यथा च ―――― 'गृहीतं येनाशीः परिभवभयान्नोचितमपि, प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः । तोsपि सहृदयैः स्वयमेव तद्विवेकेन परामर्शनीयः ॥ स्वपितीति । निद्राति ॥ १. 'ऽस्य' प्रकाशेः २. 'सी' प्रकाशे. २४
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy