SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः] . . . काव्यानुशासनम् । क्वचिदुक्तिप्रत्युक्तौ गुणः। . यथा • 'बाले नाथ विमुञ्च मानिनि रुषं, रोषान्मया किं कृतं, - खेदोऽसासु, न मेऽपराध्यति भवान्, सर्वेऽपराधा मयि । तत्कि रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते, न वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते ॥ वाक्यमध्ये वाक्यान्तरप्रवेशो गर्मितत्वम् ।। यथा 'परापकारनिरतैर्दुर्जनैः सह संगतिः । वदामि भवतस्तत्त्वं न विधेया कदाचन ॥' अत्र तृतीयः पादो वाक्यान्तरं मध्ये प्रविष्टम् । क्वचिद्गुणः । यथा. 'दिड्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताः पश्यत । ... विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् ॥' अत्र वीराद्भुतरसवशाद् 'वदन्त एव' इत्यादि वाक्यान्तरं मध्ये प्रविष्टं गुणाय । प्रस्तुतभङ्गो भग्नप्रक्रमत्वम् । यथा . 'एवमुक्तो मन्त्रिमुख्यैः पार्थिवः प्रत्यभाषत। अत्र 'उक्तः' इति प्रक्रान्ते 'प्रत्यभाषत' इति प्रकृतेर्भग्नप्रक्रमत्वम् । (यथा) 'प्रत्यवोचत' इति युक्तम् । तेऽप्रधानमिन्दुसंदर्शनमुत्प्रेक्षितमेव ॥ प्रस्तुतभङ्ग इति । स हि यथा.। प्रक्रममेकरसप्रस्तां प्रतिपत्तृप्रतीति रुन्धान इव परिस्खलनखेददायी रसभङ्गाय पर्यवस्यतीत्यर्थः ॥ प्रत्यवोचतेति युक्तमिति । एवंविधस्य प्रक्रमभेदाख्यस्य शब्दौचित्यस्य विध्य
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy