SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२८ - काव्यमाला । पुष्पप्रसूः पञ्चमजन्मदायी । तेभ्यश्चतुभ्योऽपि वसन्तमित्रमुदङ्मुखो दक्षिणमातरिश्वा ।' पूर्वापरयोः समुद्रयोहिमवन्ध्यद्वयोश्चान्तरमार्यावर्तः । तस्मिंश्चातुवर्य चातुराश्रम्यं च । तन्मूलश्च सदाचारः । तत्रयो व्यवहारः प्रायेण कवीनाम् । तत्र वाराणस्याः परतः. पूर्वदेशः । यत्राङ्गकलिङ्गकोसलतोसलोकेलमगरमधकविदेहनेपालपुण्ड्रप्राग्ज्योतिषतामलिप्तकमलजदमल्लवर्तकसुझब्रह्मोत्तरप्रभृतयो जनपदाः । वृहद्गहलोहितगिरंचकोरदर्दुरनेपालकामरूपादयः पर्वताः । शोणलौहित्यौ नदौ । गङ्गाकरतोयाकलपमाद्याश्च नद्यः । . लवलीग्रन्थिर्णिकागुरुद्राक्षाकस्तूरिकादीनामुत्पादः । महिष्मत्याः पुरतो दक्षिणापथः । यत्र महाराष्ट्रमाहिष्मकाश्मकवैदर्भकुन्तलकथकैशिकतर्षारककाश्चिकिरलिकावेरमुरलवानवासकर्णिसिंहलवोर्षदण्डकपाण्ड्यपल्लवगाङ्गनासिक्यकोङ्कणगिरिवेल्लरप्रभृतयो जनपदाः । विन्ध्यदक्षिणपदे माहेन्द्रमलयमेकलपालमञ्जरसह्यश्रीपर्वतादयः पर्वताः। नर्मदातापीपयोष्णीगोदावरीकावेरीभैमरथीवेणीवञ्जरातुङ्गभद्राताम्रपर्णीपलावतीरावणगङ्गाद्या नद्यः । तदुत्पत्तिमलयोत्पत्तिव्याख्याता । वेसभायाः परतः पश्चाद्देशः । तत्र देशसभसुराष्ट्रदाशेरकत्रवणभृगुकच्छकच्छीयानादब्राह्मणवाहजवनप्रभृतयो जनपदाः । गोवर्धनगिरिनगरदेवसभ्यमालशिषिरार्बुदादयः पर्वताः । सरखतीशुभ्रवतीवार्तनीमहीहिण्डिवाद्यानद्यः । करीरपीलगुग्गलुखर्जूरकरभादीनामुत्पादः । पृथूदकात्परत उत्तरापथः । यत्र शककेकयावोक्काणहूणवनायुजकम्बोजवाल्हीकवहूर्वलस्यातकुलूतकीरतङ्गणतुवाररकवर्वरहरहरहुहुकसरुडहंसमार्गरमठकरकण्ठप्रभृतयो जनपदाः । हिमालयजालन्धरकलिन्द्रेन्द्रकीलचण्डाचलादयः पर्वताः । गङ्गासिन्धुसरखतीशतद्रुचन्द्रभागायमुनैरावतीवितस्ताविपाशाकुहूदेविकाद्या नद्यः । सरलदेवदारुद्राक्षाकुङ्कुमचमराजिनसौवीरस्रोतोञ्जनसैन्ध ववैडूर्यतुरगाणामुत्पादः । तेषां मध्ये मध्यदेश इति व्यवहार इति । यदाहुः-'हिमवद्विन्ध्ययोर्मध्ये यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच मध्यदेशः स कीर्तितः ॥' . तत्र ये देशाः पर्वताः सरितो द्रव्याणामुत्पादश्च तत्प्रसिद्ध मिति न निर्दिष्टम् । 'द्वीपान्तराणां ये देशाः पर्वताः सरितस्तथा । नातिप्रयोज्याः कविभिरिति गाढं न चि.. त्तिताः॥' विनशनप्रयागयोगङ्गायमुनयोश्चान्तरमन्तर्वेदी । तदपेक्षया दिशो विभजेतेति : केचित् । तत्रापि महोदेयं मूलमवधीकृत्य दिशो विभजेत् । प्राच्यवाचीप्रतीच्युदीची १. 'मवद्विन्ध्ययो' वा० का०. २. 'लोत्कलमगधमुद्गर' वा० का०. ३. 'तान' . वा० का०. ४. 'लदलमल्लत कसुब्रह्म' वा० का०. ५. 'कपिशाद्या' वा० का०. ६."पर्णायु' वा० का०.७. 'मा' वा० का०. ८. 'सूर्पा' वा० का०. ९. 'केरल' वा० का०. १०. 'चोड' वा० का०. ११. 'कोल्ल' इति पाठोऽधिकः वा० का०. १२. 'भी'. वा. का० १३. 'जम्बुरा' वा० का०. १४. 'त्या' वा० का०. १५. 'देवसभा' वा. कां०. १६: 'हययवन' वा० का०. १७. 'ल्हवलम्पाक' वा० का०. १८. 'तुरुष्क' वा० का०. १९. 'ण्ड' वा० का०. २०. 'चन्द्र' वा० का०. २१. 'राग' इति स्यात.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy