SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ .३ अध्यायः काव्यानुशासनम् । समारोपितायामप्यदोषो यथा—'कोपात्कोमललोलबाहुलतिका- इ. त्यादि । अत्र वद्धा हन्यत इति च रौद्रानुभावानां रूपकबलादारोपितानां तदनिर्वाहादेवाङ्गत्वम् । इयं चाङ्गभावप्राप्तिरन्या । - यदाधिकारिकत्वात्प्रधाने एकस्मिन्काव्यार्थे रसयो वयोर्वा परस्परविरोधिनोरङ्गभावस्तत्रापि न दोषः । यथा-- 'क्षिप्तो हस्तावलमः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृहन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवापराधः स दहतु दुरितं शांभवो वः शराग्निः ॥' अत्र त्रिपुररिपुप्रभावातिशयवर्णने प्रकृते करुण इव शृङ्गारोऽप्यङ्गमिति तयोर्न विरोधः ॥ पराङ्गत्वेऽपि कथं विरोधिनोविरोधनिवृत्तिरिति चेत्, उच्यते । विधौ विरुद्धसमावेशस्य दुष्टत्वम्, नानुवादे । अन्यथा विभिन्न विपयत्वात्को विरोधः स्यादित्यर्थः ॥ ननु वीर एवात्र रसो न शृङ्गारो न वीभत्सः किं तु रत्तिजुगुप्से वीरं प्रति व्यभिचारीभूते । भवत्वेवम् । तथापि प्रकृतो. दाहरणे तावदुत्पनरतिजुगुप्सयोरपि न विरोधः ॥ करुण इवेति । तथा हि-हैस्तावलमस्य वहः क्षेपो विधूननं भयहेतुकमिति करुणारत्वे उपलालनाप्रवृत्तस्य तु व. हल्लभस्य करग्रहणासहनं क्षेपो नाविकारान्तरसंपर्कसमुत्थेाकोपनिमित्तो विप्रलम्भसंसूचकः । पटाश्चलावलमस्य वहेः प्रसभाभिहननं दाहनिमित्तदुःखजनितमवधूननं जलादिप्रक्षेपरूपं चेति करुणरसपरिपोषकम् । करावधूननेन करग्रहणासंपत्तावश्चलावलम्बिनो वालभस्य प्रसभमभिहननमवदापनमस्तया(?)वशावज्ञानिमित्तं विप्रलम्भमपरिपोषकम् । इतश्वेतश्च प्रवर्तमानस्य वः कवरीकलापासङ्गितश्वासहेतुकः ससंभ्रमकरयुगलजनितः प्रक्षेपोपासनमभिव्यअकमिह करुणस्य प्रपञ्चलवे ताण्डवपूर्वकत्वरितगतिनायिका १. इतः प्रभृति 'विरोधाभावात्' इत्यन्तो प्रन्थः पुस्तकान्तरालाभेन शुद्धयशुद्विज्ञानाभावेन यथादर्शमस्फुटार्थो विचार्यः. २. 'इत्वम् ।' स्यात्.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy