SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ २ अध्यायः] काव्यानुशासनम् । संचूर्णयामि गदया न सुयोधनोरू . संधि करोतु भवतां नृपतिः पणेन ।' अत्र मनाम्येवेत्यादि व्यङ्गयं वाच्यतुल्यभावेन स्थितम् । इति त्रयो मध्यमकाव्यभेदा न त्वष्टौ । अव्यङ्गयमवरम् । . शव्दार्थवैचित्र्यमानं व्यङ्गयरहितमवरं काव्यम् । यथा--- 'अघौधं नो नृसिंहस्य घनाघनघनध्वनिः । · हताद्धरुघुराघोषः सुदीर्घो घोरघर्षरः ।।" यथा वा'ते दृष्टिमात्रपतिता अपि नात्र कस्य क्षोभाय पक्ष्मलदृशामलकाः खलाश्च । नींचाः सदैव सविलासमलीकलग्ना _ये कालतां कुटिलतामिव न त्यजन्ति ।' यद्यपि सर्वत्र काव्येऽन्ततो विभावादिरूपतया रसपर्यवसानम्, तथापि स्फुटस्य रसस्यानुपलम्भादव्यङ्ग्यमेतत्काव्यमुक्तम् ।। ' इत्याचार्यहेमचन्द्रविरचितायामलंकारचूडामणिसंज्ञखोपज्ञकाव्यानुशासन __ वृत्ती रसभावतदाभासकाव्यभेदप्रतिपादनो द्वितीयोऽध्यायः। स्पृहणीयत्वादि ध्वन्यते । मोदतेशब्देन वाधितहत्मिकमुख्यार्थेनार्दवितर्दकत्वसादृश्यादुद्गमं लक्षयता उच्छृङ्खलस्पृहणीयादि ध्वन्यते॥ न त्वष्टाविति । यथाह मम्मट:'अगूढमपरस्याङ्गं वाच्य सिद्धयङ्गमस्फुटम् । संदिग्धतुल्यप्राधान्ये काकाक्षिप्तमसुन्दरम् । व्यङ्ग्यमेवंगुणीभूतव्यङ्ग्यस्याप्टौ भिदाः स्मृताः ॥ इति ॥ ननु यत्र रसादीनामविषयः स काव्यप्रकारोऽपि न भवत्येव । यस्मादवस्तुसंस्पर्शिता काव्यस्य तनोपपद्येत । वस्तु च सर्वमेव जगद्गतमवश्यं कस्यचिद्रसस्य भावस्याङ्गं प्रतिपद्यते । अनन्तरो विभावत्वेन चित्तवृत्तिविशेषा हि रसादयः । न च तदस्ति वस्तु यन्न किंचिच्चित्तवृत्तिविशेषमु. पजनयति । तदनुत्पादने वा कविविषयतैव तस्य न स्यादित्याशङ्कयाह-यद्यपीति ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके द्वितीयोऽध्यायः । १. 'कस्य नात्र' काव्यप्रकाशे.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy