SearchBrowseAboutContactDonate
Page Preview
Page 897
Loading...
Download File
Download File
Page Text
________________ चारे च संधेयसंध्यक्षरस्यादिदुत्परः॥७ । ४ । १०२ ॥ रांधेयः संधियोग्यः यः कचित्स्वरे परे विकारमापद्यते । प्रश्नेऽर्चायां विचारे प्रत्यभिवादे च वर्तमानस्य वाक्यस्य संवन्धिनः स्वरेष्वन्त्यस्वरस्य संधेयसंध्यक्षरस्य प्लुतो भवन् आकार इदुत्परः प्लुतो भवति । स च प्रसासत्या एकारकारयोरिकारपर ओकारौकारयोरुकारपरो भवति । प्रश्ने, अगमः ३ पूर्वान् ३ ग्रामा ३ नगिभूता ३इ। पटा ३ उ । अदा ३ स्तस्मा ३ इ। अपचा ३३। पटा ३ उ । अहौपी ३ रना ३ उ । 'प्रश्ने च प्रतिपदम् ' (७-४-२८) इति प्लुतः । अर्चा पूजा तस्यां 'दूरादामन्त्र्यस्य' (७-४-१९) इति प्लुतः । शोभनः खल्वसि अग्निभूता ३३। पटा ३ उ । विचारे, वस्तव्यं किं निर्ग्रन्थस्य सागारिका ३ इ उतानागारिके । प्रत्यभिवादे, आयुष्मानोधे अग्निभूता ३ इ। पटा ३ उ। आयुष्मन्तौ भूयास्तां । देवदत्तजिनदत्ता ३ उ । प्रश्नाचा विचारे चेति किम् । आगच्छ भो अग्निभूते ३ संधेयग्रहणं किम् । कचि ३ त् कुशल ३ म् भवत्योः ३ कन्ये ३ । आगमः ३ पूर्वो ३ न ग्रामा ३ नहो ३ भद्रकाऽसि गौः ३ । आयुष्मानेधि भो ३। संव्यक्षरस्येति किम् । भद्रिकासि कुमारि ३ । वाक्यस्य स्वरेष्वन्त्यस्वर इति विज्ञानादिह न भवति । अगमः ३ पूर्वी ३ ग्रामौ ३ देवदत्त ३ ॥ १०२ ॥ तयोचौं स्वरे संहितायाम् ॥७।४ । १०३ ॥ तयोः प्लुताकारात्परयोरिदुतोः स्थाने स्वरे परे | संहितायां विषये यथासंख्यं यकारवकारावादेशौ भवतः । अविरामः संहिता । अगम ३ अग्निभूता ३ यत्रागच्छ । अगम ३ अग्निभूता ३ यिहागच्छ । अगमः ३ पटा ३ वत्रागच्छ । अगमः ३ पटा ३ वुदकमानय । स्खे दीर्घत्वस्याखे स्वरे इस्वत्वस्य वाधनार्थ वचनम् । स्वर इति किम् । अग्ना ३ इ। पटा ३ उ। संहितायामिति किम् । अग्ना ३ इ इन्द्रम् । पटा ३ उ उदकम् । अग्ना ३ इ अत्र । पटा उ अत्र । कोचदैदोतोश्चतुर्मात्रं प्लतमिच्छन्ति । ऐ४ तिकायन । औ ४ पगव ॥१०३ ॥ पञ्चम्या निर्दिष्टे परस्य ॥७ । ४ । १०४ ॥ पञ्चम्या निर्दिष्टे यत्कार्यमुच्यते तत्परस्य स्थाने भवति । अतो 'भिस ऐस् । (१-४-२) वृक्षः। पौः । इह न भवति । मालाभिरत्र । निर्दिष्टग्रहणस्यानन्तर्यार्थवादिह न भवति । दृषद्भिः । व्यवहितेऽपि हि परशब्दो दृश्यते । यथा महोदयात्परं साकेतमिति । अत इत्यादौ दिग्योगलक्षणा पञ्चमी। तत्र पूर्वस्य च परस्य च कार्य स्यादिति नियमार्थ वचनम् ॥ १०४॥ सप्तम्या पूर्वस्य ॥७।४।१०५॥ सप्तम्या निर्दिष्टे यत्कार्यमुच्यते तत्पूर्वस्पानन्तरस्य स्थाने भवति । ' इवर्णादेरस्वे स्वरे यवरलम् (१-२-२१|दव्यत्रामवत्रानिर्दिष्टाधिकारादिह न भवति।समिदवात्रिष्टुबत्र। व्यवहितेऽपि पूर्वशब्दो दृश्यते । मथुरायाः पूर्व पाटलिपुत्रमिति । स्वर इत्यादौ औपश्लेषिकमधिकरणं पूर्व परं च संभवति तत्र परमेव ग्राह्यमिति नियमार्थ वचनम् ॥ १०६ ॥ षष्ठयान्त्यस्य ॥ ७॥ ४ । १०६ ॥ पठ्या निर्दिष्टे यत्कार्यमुच्यते तदन्त्यस्य षष्ठीनिर्दिष्टस्यैव योऽन्त्यो वर्णस्तस्य स्थाने भवति न तु समस्तस्य । संधियोग्य इति । यस्य 'ईदूर्दत्-' इत्येवमादिभिनिषेधो नास्ति॥-सप्त-1-नन्यत्र दध्यत्रेत्यादौ सूत्रमन्तरेणापि यत्वादि सिध्यति। यत 'इवर्णादे.-'इत्यत्र स्वरे इत्यौपश्लेषिकमधिकरण तच्च पूर्व पर च सभवति । तत. स्वरः परो विद्यतेान च मध्विदमित्यादो पूर्वस्मिन् स्वरे निमित्ते उत्तरस्य इकारस्य यस्य स्यादित्याशङ्कनीय यतः प्रकृते. पूर्व पूर्वमिति म्यायात् पूर्वस्य उकारस्य वत्व भविष्यति।उच्यते।अष्टाभिरष्टमिय हरयन
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy