________________
गौर्वाहीकः । सदा गुणवाची यः स इह गुणशब्दो गृप्यते । अयं तूपमानात्मान्द्रव्यवाची पश्चात्तु तैयजाडयादिगुणवाचीति न भवति । सदृश इति किम् । शुक्लः | पटः । पटश्चैत्रः ॥ ८६ ॥ प्रियसुखं चाकृच्छे ॥ ७॥ ४ ॥ ८७॥ प्रिये मुखशब्दौ अकृच्छ्रे क्लेशाभावे वा द्विरुच्यते तत्र चादौ शब्दरूपस्य स्यादेः प्लुप भवति । प्रियप्रियेण ददातिप्रियेण ददाति।सुखमुखेनाधीतीसुखेनाधीते।अक्लेशेनाधीते इत्यर्थः।अकृच्छू इति किम् । प्रियः पुत्रः।सुखो रथः। चकारः प्लुप् चादौ स्यादेः इत्यस्यानुकर्पणार्थः ॥ ८७ ॥ वाक्यस्य परिर्वजने ॥ ७।४।८८ ॥ वाक्यस्यावयनो यः परिशब्दो न पदस्य स वर्जने वर्तमानो वा द्विरुच्यते । परिपरि त्रिगतेभ्यो दृष्टो मेघः। परि त्रिगर्तेभ्यो वृष्टो मेघः । परिपरि सौवीरेभ्यः । परि, सौवीरेभ्यः । वाक्यस्येति किम् । परित्रिगत दृष्टो मेघः । वाक्यस्यैवेत्यवधारणविज्ञानात्पदावयवे न भवति । परिरिति किम् । अप त्रिगर्तेभ्यो दृष्टो मेघः । वर्जन इति किम् । साघुर्देवदत्तो मातरं परि ॥ ८८ ॥ संमत्यसूयाकोपकुत्सनेष्वाद्यामन्त्र्यमादौ स्वरेष्वन्त्यश्च प्लुतः॥७॥ ४॥ ८९ ॥ कार्येष्वाभिमत्यं सम्मतिः पूजनं वा । परगुणासहनमसूया । कोपः क्रोधः । निन्दा कुत्सनम् । एते प्रयोक्तृधर्मा नाभिधेयधर्माः । एतेष्वर्थेषु वर्तमानस्य वाक्यस्यादिभूतमामन्त्र्यमामन्णयार्थ पदं द्विरुच्यते । तत्र द्विवचने आदौ पूर्वोक्तौ स्वरेषु स्वराणां मध्ये योऽ-१९ त्यस्वरः स प्लुतो वा भवति । संमत्यस्याकोपकुत्सनेष्विति बहुवचनात् द्विवचने विकल्पो न संवध्यते । संमती, माणवक ३ माणवक माणवक माणवक अभिरूपक ३ अभिरूपक अभिरूपंक अभिरूपक शोभनः खल्वसि । असूयायाम् , माणवक ३ माणवक माणवक माणवक अभिरूपक ३ अभिरूपक अभिरूपक अभिरूपक रिक्तं ते आभिरूप्यम् । कोये, माणवक ३ माणवक माणवक माणवक अविनीतक ३ अविनीतक अविनीतक विनीतक इदानीं ज्ञास्यसि जाल्म । कुत्सने, शक्तिके ३ शक्तिके शक्तिके शक्तिके याष्टिक ३ यष्टिके यष्टिके यष्टिके रिक्ता ते शक्तिः । संमत्यसूयाकोपकुत्सनेष्विति किम् । देवदत्त गामभ्याज शुक्लां दण्डेन । आदीति किम् । शोभन: खल्लसि माणवक । आमन्त्र्यमिति किम् । उदारो देवदत्तः । आदाविति किम् । उत्तरौक्तौ मा भूत् । स्वरेष्विति किम् । व्यञ्जनान्तस्यापि यथा स्यात् । अन्त्य इति किम् । आदिमध्यो वा मा भूत् । चकारो द्विवचनानुकर्षणार्थः । तथा च चानुकृष्टत्वादुत्तरन नानुवर्तते ॥ ८९॥ भसने पर्यायेण ॥७।४।९० ॥ भर्सन कोपेन दण्डाविष्करणम् । तत्र द्विवचनं सिद्धमेव प्लुतार्थ आरम्भः । भर्सने वर्तमानस्य वाक्यस्य यदामन्त्र्यं पदं तद्विरुच्यते । तत्र पर्यायेण पूर्वस्यायुत्तरस्यां वोक्तौ स्वरेष्वन्त्यः स्वरः पलतो वा भवति । चौर ३ चौर, चौर चौर ३, चौर चौर, दस्यो ३ दस्यो, दस्यो दस्यो ३, दस्यो दस्यो घातयिष्यामि त्वां, बन्धयिष्यामि त्वाम् ॥१०॥ -वाक्य-॥-वाक्यस्यैवेति । यद्यपि य पदावयव स वाक्यस्यापि तथापि गो वाक्यात्यैव भवतीति । ननु परिशब्दो गावाक्यावययः कश्चिदस्ति सर्वमपि हि पट वाक्यावयवे प्रयुज्यते वाक्यावयवत्वात् संव्यवहारस्य सव्यवहारार्थत्याच शब्दप्रयोगस्य । न च परिशब्द केवल प्रयुज्यमानो वर्जन गमयति प्रोतकस्यात् । घोतको हि कस्यचित् सनिधावेव प्रयुज्यमानो घोत्य द्योतयतीति वाक्यावयवत्वे सिद्धे वाक्यावयवत्वप्रतिपत्यर्थ
Movie