SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ स०अन्तु देविलः । अनुकम्पित उपेन्द्रदत्त उपडे उपकः उपियः उपिकः उपिलः । अनुकम्पितः पितृदत्तः पिठ्यः । पितृकः । पितृलः । एवं वायुयः । वायुकः । वायुलः । ऊर्ध्वग्रहणं सर्वलोपार्थम् ॥ ४१ ॥ संध्यक्षरातेन ॥ ७ ॥ २ ॥ ४२ ॥ अनुकम्पायां विहिते स्वरादौ प्रत्यये परतः प्रकृतेद्वितीयात्संध्यक्षररूपात्स्वरावं शब्दरूपस्य तेन द्वितीयेन संध्यक्षरेण सह लुग् भवति । अनुकम्पितः कुवेरदत्तः कुपियः । कुविक । कुबिलः । अनुकम्पितः कहोडः कहियः कहिकः कहिलः । अनुकम्पितो लहोडः लहियः लहिकः लहिलः । अनुकम्पितः कपोतरोमा कपियः कपिकः कपिलः । अनुकाम्पतोऽमोघः अमोघदत्तः अमोघजिहो वा अमियः । अमिकः । अमिलः । सन्ध्यक्षरादिति किम् । अनुकम्पितो गुरुदत्तः गुरुपः गुरुकः गुरुलः ॥ ४२ ॥ शेवलाद्यादेस्तृतीयात् ॥७।३। ४३ ॥ शवलादिपूर्वपदस्य मनुष्यनाम्नोऽनुकम्पायां विहिते स्वरादौ प्रत्यये परे तृतीयात्स्वरादूबै लुग्भवति । द्वितीयात्स्वरादुर्वमित्यस्याषवादः । अनुकम्पितः शेवलदत्तः शेवलियः शेवलिकः शेवलिलः । एवं सुपरिदत्तः सुपरियः सुपरिकः सुपरिलः । विशालदत्तः विशालियः विशालिकः विशालिलः । वरुणदत्तः वहणियः वरुणिकः वरुणिलः । अर्थमदत्तः अर्यमिय. अर्यमिकः अमिलः । अत्राप्यकृतसंधेरेव लोपः शेवलेन्द्रदत्तोऽनुकम्पितः शेवलिक इति यथा स्यात् शेवलयिक इति माभूत, सुपर्याशीर्दचोऽनुकम्पितः सुपरिक इति यथा स्यात् सुपर्थिक इति मा भूत् । शेवल सुपरि विलाश वरुण अर्यमन् । इति शेवलादिः । कचित्तु विशाखिलः कुमारिल इत्यत्रापीच्छन्ति ।। ४३ ॥ कचित्तुर्यात् ।। ७।३ । ४४ ॥ अनुकम्पायां विहिते स्वरादौ प्रत्यये परे कचिल्लल्यानुसारेण तुर्याचतुर्थीस्वरार्ध्व लुग्भवति । अनुकम्पितो वृहस्पतिदत्तो बृहस्पतिशा वा वृहस्पतियः बृहस्पतिकः बृहस्पतिलः । एवं प्रजापतियः । प्रजापतिकः । प्रजापतिलः । अकृतसन्धिरित्येव पूर्ववत् प्रजापत्याशीदत्तोऽनुकम्पितः प्रजापतिक इति यथा स्यात् प्रजापत्यिक इति मा भूत् । कचिद्हणादिह न भवति । अनुकम्पितः उपेन्द्रदत्तः उपडः उपकः उपियः उपिलः ॥ ४४ ॥ पूर्वपदस्य वा ॥ ७॥ ३ ॥ ४५ ॥ अनुकम्पायां विहिते स्वरादौ प्रत्यये परे पूर्वपदस्य लुग् वा भवति । 8 अनुकम्पितो देवदत्तः अदत्तियः दत्तिक दत्तिलः । वावचनाद्यथाप्राप्तम् । देवियः । देविकः । देविलः 'द्वितीयात्स्वरादूर्ध्वम्' (७-३-४१ ) इति लुक् ॥४५॥ हस्खे ॥ ७।३ । ४६ ॥ दीर्घप्रतियोगि हसम् । इस्वेऽर्थे वर्तमानाच्छब्दरूपायथायोगं कवादयः प्रत्यया भवन्ति । इस्वः पटः पटकः । शाटकः। इस्वं पचति पचतकि । इस्वकालयोगास्क्रिया इस्वेत्युच्यते । इस्वाः सर्वे सर्वके । विश्वके । उच्चकैः । नीचकैः । तूष्णीकाम् । संज्ञायामपि इस्वत्वयोगात्का, स इस इत्येव सिद्धः । वंशकः । वेणुकः । नडकः (नरक)। ललकः । ररकः ॥ ४६॥ कुटीशुण्डाद्रः॥ ७ । ३ । ४७ ॥ कुटीशुण्डा इत्येताभ्यां इस्वेऽर्थे । -उपड इति । अकृतसधेरेव लुबित्युत्तरेणाप्राप्तिः । तृतीयस्व च पूर्ववज्ञ भवति ।-शेव-॥-सुपरिदत्त इति । सुष्टु पिपर्ति सुपरीति पूर्व पद मोप सर्गद्वयम् ॥--पूर्व-+-दत्तिय इति । ' ते लुग्वा' इति पूर्व लुकि बहुस्वरत्वाभावादियादिन स्यादिति वचनम् ॥-इस्वे ॥-दीर्घप्रतियोगि इस्वमिति । लोहादिक इव च महय सभवतीति महत्प्रतियोगिनि 'अस्पे' इति न मिपति ॥-सिद्ध इतिथे हि सज्ञाया कप्प्रत्यय विद्धति तेपि हस्वत्वोपाधिकायां सज्ञायामिति व्याख्यान्तीति सज्ञायामप्यनेनैव कप सिद्ध इस्प्रर्थ ॥३
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy