________________
VANAG
33
सर्वादीनां च स्वरेषु सराणां मध्ये योऽन्त्यस्परस्तस्मात् पूर्वोऽक् प्रत्ययो भवति । प्राग्नित्यात् कपोऽपवादः । कुत्सितमल्पमज्ञात वा पचति पचतकि। पचतकः । पचन्तकि । सर्वादि, सर्वके । विश्वके । सर्वकस्मै । विश्वकस्मै । यकवपिता । तकत्पिता । त्वकतपिता । मकत्पिता । परमसर्वके । परमविश्वके । तदन्तस्यापि सर्वादित्वमस्तीत्यत्राप्यक् । स्वरेष्वन्त्यादिति किम् । त्याद्यन्तात्सर्वादेश्च पूर्व माभूत् । पूर्व इति किम् । परो माभूत् ॥ २९ ॥ युष्मदस्मदोऽसोभादिस्यादेः ॥ ७ । ३ । ३० ॥ युष्मदस्मदित्येतयोः सकाराधोकारादिभकारादिवजितस्याद्यन्तयोः स्वरेण्वन्त्यात्पूर्वोऽक् प्रत्ययो भवति । युष्मदस्मदो. स्वरेष्वन्त्यात्पूर्वस्यापवादः । त्वयका । मयका । त्वयकि । मयकि । युष्माककम् । अस्माककम् । परमत्वयका । परममयका । युष्मदस्मद इति किम् । तकया। यकया । सर्वकेण । विश्वकेन । इसकेन । अमुकेन । इमकैः। अमुकैः । भवकन्तौ । भवान्तः । केचिद्भवच्छब्दस्यापि स्याद्यन्तस्यात्यस्वरात्पूर्वमकमिच्छन्ति । तन्मते , भवतका भवतके भवतकः भवतकीत्यपि भवति । असोभादिस्यादेरिति किम् । युष्मकासु । अस्मकासु । युवकयो। आवकयोः । युवकाभ्याम् । आवकाभ्याम् । युष्मकामिः । अस्मकाभिः ॥ ३०॥ अव्ययस्य को द् च ॥७॥३॥ ३१ ॥ प्रानित्यायेऽर्थास्तेषु द्योत्येषु अव्ययस्य स्वरेषन्त्यात्स्वरात्पूर्वमक् प्रत्ययो भवति तत्संनियोगे यत्ककारान्तमव्ययं तस्य दकारोज्लादेशो भवति । कपोऽपवादः । कुत्सितमल्पमज्ञातं वा उच्चैः उच्चकैः । नीचैस्, नीचकैः । धिक् धकित् । हिरुक् हिरकुद् । पृथक् पृथकद् । चकारोऽन्वाचये तेन सर्वस्याव्ययस्याक् भवति । ककारान्तस्य व दान्तादेशश्च । योगविभागस्त्यादेदादेशाभावार्यः । शक्लंट शक्तौ । यङ् लुप् दिव् । अशाशक् । अकि, अशाशकक् ॥ ३१ ॥ तूष्णीकाम् ॥ ७।३ । ३२ ॥ तूष्णीकामिति तूष्णीमो मकारात्पूर्व का इत्यागमो निपात्यते मानियात् । अकोऽपवादः । कुत्सितमल्पमज्ञातं वा तूष्णीं तूष्णीकाम् आस्ते । तूष्णीकां तिष्ठति ॥ ३२ ॥ कुत्सिताल्पाज्ञाते ॥७॥३॥ ३३ ॥ कुत्सितं निन्दितम् । अल्पं महत्पतियोगि । अज्ञातं प्रकृत्युपात्तधर्मव्यतिरेकेण केनचित् स्वत्वादिना धर्मेणानिश्चितम् । सर्वथा त्वज्ञाते प्रयोगायोगात् । कुत्सिताल्पाज्ञातोपाधिकेऽर्थे वर्तमानायथायोग कवादयः प्रत्यया भवन्ति । कुत्सितोऽल्पोऽज्ञातो वायामश्वकः । गर्दकः । घृतकम् । तैलकम् । पचतीक । भिन्ाक । सर्वके । विश्वके । उच्चकैः । नीचकैः । तूष्णीकाम् । कथं कुत्सितकः । अल्पकः । अज्ञातकः । कुत्सादीनां भेदोपपत्तेः कुत्सितादिभ्योऽपि | कुत्सितादौ प्रत्ययो भवति प्रकृष्टतर इत्यादौ प्रकर्षभेदे तरयादिवत् । रायकः पूर्णकः शूद्रक इत्यादौ सत्यामपि संज्ञायां कुत्सायोगात् कुत्सित इसेव कप । व्याकरणकेन नाम त्वं गर्वितः याज्ञिक्यकेन नाम त्वं विकत्यस इत्यादौ अवक्षेपणमपि कुत्सितमेव । नाकुत्सितेनावक्षिप्यते ॥ ३३॥ अनुकम्पातयुक्तनीयोः ॥७॥ ३ ॥ २४ ॥ अनुकम्पा कारुण्येन परस्यानुग्रहः । तया अनुकम्पया युक्ता नीतिस्तद्युक्तनीतिः । नीतिः सामादिप्रयोगः । तत्रानुकम्पायां सामोपप्रदाने एव -कुत्सि-॥-कमिति । कुरिसतादे प्रकृत्येव गतार्थत्वात् प्रत्ययस्यार्थाभावान तदर्थद्योती प्रत्ययोऽत्र युक्त इत्याशड्का ।।-कुत्सायोगादिति । तेनान्येरिव सज्ञायां काम विधातव्य । यथा 'अज्ञाते कुत्सिते चैव सज्ञायामनुसम्पने । तद्युक्तनीतावप्पलले वाच्चे हस्ते च क स्मृतः ॥१॥-अवक्षेपणमपीति । व्याकरण कुत्सन, चैवाकरणस्तु कुत्सित इति व्याकरणात् कथ प्रत्यय इत्याशद्का॥-अनु-1
MMKCarelow