SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ ॥३०॥ यथासंख्यं शरीरे भेपजे मगे च वर्तमानेभ्यः स्वार्थेऽण् प्रत्ययो वा भवति । श्रोत्राच्छरीरे। श्रोत्रमेव श्रौत्र शरीरम् । श्रोत्रमेवान्यत । ओषधेषजे ओपधिरेवौषधम् भेपजम् ओपधिरेवान्यत । कृष्णान्मृगे । कृष्ण एव कापणो मृगः । कृष्ण एवान्यः ॥ १६६ ॥ कर्मणः संदिष्टे ॥ ७ ॥२ । १६७ ॥ संदिरोऽथे वर्तमानात्कर्मणः स्वार्थेऽण् मत्ययो भवति । अन्येनान्योन्यस्मै यदाह त्वयेदं कर्तव्यमिति तत्संदिष्टं कर्म । कमैव कार्मणं करोति । संदिष्ट कर्म करोतीत्यर्थः । वशीकरणमपि वृद्धपरंपरोपदेशात क्रियते इति कार्मणमुच्यते । संदिष्ट इति किम् । कर्म करोति । सत्यपि महावाधिकारे विशिष्टोऽर्थः प्रसयमन्तरेण न प्रतीयते इत्यस्मिन् विषये नित्य एवं प्रत्ययः ॥ १६७ ॥ वाच इकण् ॥७। २। १६८ ।। संदिष्टेऽर्थे वर्तमानाद्वाच्शब्दात्स्वार्थे इकण् प्रत्ययो भवति । अन्येनान्योऽन्यस्मै यामाह सा संदिष्टा बाड़ । बागेत्र वाचिक कथयति । संदिष्टां वाचं कथयतीसर्थः । संदिष्ट इत्येव । चित्रा वाक् चैत्रस्य । अत्रापि पूर्ववन्नित्यो विधिः ॥ १६८ ॥ विनयादिभ्यः॥ ॥७।२।१६९ ॥ विनय इत्येवमादिभ्यः स्वार्थे इकण प्रत्ययो वा भवति । विनय एव वैनयिकम् । समय एव सामयिकम् । विनय समय समाय कथंचित् अकस्मात उपचार व्यवहार समाचार संप्रदाय समुत्कर्ष संगति संग्राम समूह विशेष अव्यय अत्यय अनुगादिन् इति । विनयादिराकृतिगणः ॥ १६९ ॥ उपायाद्रस्वश्च ॥ ७ । २ । १७० ।। उपायशब्दात्स्वार्थे इकण प्रत्ययो वा भवति तत्संनियोगे च इस्वः । उपाय एव औपयिकम् ॥ १७० ॥ मृदस्तिकः ॥७।२।१७१ । मृन्छन्दात्स्वार्थे तिकः प्रययो वा भवति । मृदेव मृत्तिका ॥ १७१ ॥ सस्नो प्रशस्ते ॥ ७।२।१७२ ॥ मृद् इत्येतस्मात् प्रशस्तेऽर्थे वर्तमानाव सन इत्येतौ प्रत्ययौ वा भवतः । रूपप्रत्ययापवादः । प्रशस्ता मृत् मृत्सा मृत्स्ना ॥ केचित्तु रूपमपीच्छन्ति प्रशस्ता मूत् मुद्रपा ॥ १७२ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृहद्वृत्तौ सप्तमाध्यायस्य द्वितीयः पादः समाप्तः ॥७।२।१७२ ॥ उत्साहसाहसवता भवता नरेन्द्र धाराव्रतं किमपि तद्विषमंसिषेवे॥ यस्मात्फलं न खलु मालवमात्रमेव श्रीपर्वतोऽपि तव कन्दुककोलिपात्रम् ॥१॥ ॥तृतीयः पादः॥ प्रक्रते मयद ॥७।३।१॥ प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम् । प्रकृतेऽयें वर्तमानानाम्नः स्वार्थे मयद् प्रत्ययो भवति । अन्नं प्रकृतम् अन्नमयम् । घृतमयम् । दधिमयम् । टकारो उथर्थः । यवागूपयी । *अतिवर्तन्तेऽपि स्वार्थिकाः प्रकृतिलिङ्गवचनानीति यवागूः प्रकृता यवागमयम् । एवमुत्तरत्रापि । अपूपाः -प्रकृते-1-अन्नमयामिति । अन्न प्रचुर प्रधान वेत्यर्थ ॥-अतिवर्तन्ते इति । इहाशमयमित्यादिषु युक्तमन्नादेर्नपुसकत्वात् प्रत्ययस्यापि तत्रैव वृत्तिरिति । यवागूमयीत्यपि युक्तमेय प्रकृत्यर्थस्थ स्त्रीत्वात् प्रत्ययस्य स्वार्थिकरय तत्रैव स्त्रियां वृत्ते, यवागूमयामिति त्वयुक्त यवाग्वर्थस्य स्त्रीत्वात् स्वार्थिकस्य प्रत्ययस्यापि
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy