SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ केवलस्य दिक्पूर्वपदस्य च अर्धशब्दे उत्तरपदे पश्चादेशो वा भवति । अपरमय पश्चार्धम् अपरार्धम् । दक्षिणापरस्या अर्धः दक्षिणपश्चार्धः दक्षिणापराधः । उत्तरपश्चार्थः । उत्तरापराधः । उत्तरपदे इति किम् । अपरा अर्धे शोभते । असमासोऽयम् । पूर्वपदमुत्तरपदमिति हि समासे भवति ॥ १२५ ॥ *कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वं विः ॥ ७॥२।१२६ ॥ भूश्व स्तिश्च भवस्ति का च भवस्ति च कृस्तिनी ताभ्यां कृभ्वस्तिभ्याम् । द्विवचनं कर्मकर्तृभ्यामिति ययासंख्यार्थम् । करोतिकर्मणो भ्वस्तिकर्तुश्च प्राक् पूर्वमतस्य तत्त्वेऽभूततद्भावे गम्यमाने कुम्वस्तिभ्यां च योगे चिः प्रत्ययो भवति । द्रव्यस्य गुणक्रियाद्रव्यसंबन्धसमूहविकारयोगे प्रागतत्तत्वमुदाहार्यम् । शुक्लीकराति पटम् । मागशुक्लं शुक्लं करोतीत्यर्थः । शुक्लीक्रियते पटः । मागशुक्लः शुक्लः क्रियत इत्यर्थः । शुक्लीकरणम् । शुक्लीभवति पटः । प्रागशुक्ला पट इदानीं शुक्लो भवतीत्यर्थः। शुवलीभवनम् । शुक्लीस्यात्परः।मागशुक्ला चट इदानी शुक्ला स्यादित्यर्थः । एवं कारकीकरोति चैत्रम्। कारकीभवति कारकीस्थाच्चैत्रः। दण्डीकरोति चैत्रम्। दण्डीभवति दण्डीस्यात् चैत्रः। राजपुरुपीकरोति चैत्रम् । राजपुरुषीभवति राजपुरुषीस्याचैत्रः । संघीकरोति गाः । संघीभवन्ति संघीस्युर्गावः । घटीकरोति मृदम् । घटीभवति घटी स्यान्मृत् । पटीकरोति तन्तून् । पटीभवन्ति पटीस्युस्तन्तकः । भस्मीकरोति काष्ठम् । भस्मीभवति काष्ठम् । भस्मीस्यात् काष्ठम् । कृभ्वस्तिभ्यामिति किम् । अशुक्लं शुक्लं संपादयति । अथुक्लः शुक्ल: संपवते । कर्मकर्तृभ्यामिति किम् । पागदेवकुले इदानीं देवकुले करोति । मागदेवकुले इदानी देवकुले भवति । कथं समीपीभवति दूरीभवति अभ्यासीभवति । अत्रापि उपचारातत्स्थ द्रव्ये वर्तमानानां समीपादीनां कर्तृत्वम् । प्रागतत्तत्त्व इति किम् । शुक्लं करोति । शुक्लो भवति । शुक्लः स्यात् । पारग्रहणं किम् । अशुक्लं शुक्लं करोति । एककालमतत्तत्त्वे न भवति । भवति हि एको भावः कश्चिदेककालं शुक्लोऽशुक्लश्च देशभेदेन चित्रपटीवत् । अभद्रं भद्रं करोति भद्राकरोति शिरः अनिष्कुलं निष्फुलं करोति निष्फुलाकरोति दाडिममित्यत्र परत्वात डाजेव ॥ १२६ ॥ अरुर्मनश्चक्षुश्चेतोरहोरजसा लुक च्वौ ॥७।२।१२७ ॥ अरुस् मनसू चक्षुस् चेतस् रहस् रजस् इत्येतेषां चौ परेऽन्तस्य लुग्भवति । अनरुः अरुः करोति । अरूकरोति । अरूभवति अरूस्यात् । महारूकरोति । महारूभवति ।। महारूस्यात् । मनीकरोति । मनीभवति । मनीस्पात् । उन्मनीकरोति । उन्मनीभवति । उन्मनीस्यात् । चलकरांति । चलभवति । चक्षुस्यात् ।। उच्चस्करोति । उच्चक्षुभवति । उच्चक्षुस्यात् । चेतीकरोति । चेतीभवति । चेतीस्यात् । विचेतीकरोति । विचेतीभवति । विचेतीस्यात् । रहीकरोति । रहीभवति । रहोस्यात् । विरहीकरोति । विरहीभवति । विरहीस्यात् । रजीकरोति । रजीभवति । रजीस्यात् । विरजीकरोति । विरजीभवति । विरजीस्यात् । कृभ्व-||-पागतत्तवे इति । तस्य भावस्तत्त्वम् न स अस । प्राग् अस प्रागस । 'अव्यय प्रवृद्धादिभिः' इति सः । प्रागतस्य तत्व प्रागतत्तत्व तस्मिन् ॥-दण्डीकरोतीति । असत्पर इत्यधिकारस्य 'रास ' इत्यवस्थितत्वात् ' दीर्घवि-' इति दीर्घ ॥-कथमिति । नन्वत्र प्रागतत्तत्त्वं नास्ति प्रकृति विकाराभावात् । नमसमीप समीप भवति कि तर्हि असमीपस्थ समीपस्थ भवतीति समीपादिभ्य. चि प्रत्ययो यतव्य इत्याशक्याह-उपचारादिति । समीपशब्द समीपस्थे MOVAR
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy