________________
॥ द्वितीयः पादः ॥
* तदस्यास्त्यस्मिन्निति मतुः ॥ ७ । २ । १ ॥ तदिति प्रथमान्तादस्येति षष्ठ्यर्थे ऽस्मिन्निति सम्यर्थे वा मतुः प्रत्ययो भवति यत्तत्प्रथमान्तमस्तीति चैतद्भयति अस्तिप्तमानाधिकरणं भवतीत्यर्थः । गावोऽस्य सन्ति गोमान् । यवमान् । वृक्षा अस्मिन् सन्ति वृक्षवान् लक्षवान् पर्वतः । अस्ति धनमस्य अस्तिमान् । स्वस्ति आरोग्यमस्यास्ति स्वस्तिमान् । अत्रास्तिस्वस्ती अव्ययौ धनारोग्यवचनौ । अस्तीति च पामान्याभिधायि । विशेपास्तेश्व सामान्यास्तिना सामानाधिकरण्यमुपपद्यत एव | अस्तीति वर्तमानकालोपादानात् वर्तम, नसचायां प्रत्ययो भवति न भूतभविष्यत्सत्तायाम् गावोऽस्यासन् गावोऽस्य भवितार इति । न तर्हि इदानीमिदं भवति गोमानासीत् गोमान् भवितेति । भवति, न त्वेतस्मिन्वाक्ये भवति । तथा सति हि यथा गोमान् यत्रमानित्यत्रास्तेः प्रयोगो न भवति एवं गोमानासीत् गोमान भवेतेत्यत्रापि न स्यात् । भवतु वा प्रयोगः तथापि गावोऽस्यासन् गावोऽस्य भवितार इतिवत् गोमानासीदित्यादिष्वपि बहुवचनं श्रयेत । का नहीं य | वाचोयुक्तिः गोमानासीत् गोमान् भवितेति । एषैषा वाचोयुक्तिः । नैषा गवसत्ता कथ्यते गोमत्सत्चैश कथ्यते । तर्हि कथं मतुः । अस्त्यत्र वर्तमानकालोक्तिः । कथं तहि मृतभविष्यत्कालता गम्यते । 'धातोः संवन्धे प्रत्ययाः ' ( ५-४-४१ ) इति । अथेह कस्मान्न भवति । चित्रा गावोऽस्य सन्ति स चित्रगुः *शवलगुरिति । बहुत्रीहिणैव मत्वर्थस्योक्तत्वात् । एवं पूर्वशाल: अपरशालः पश्चगुः दशगुरित्यत्राप्यस्तीतिपदसापेक्षं तद्धितद्विगुं द्वैमातुर इत्यादौ सावकाशं वाधित्वा अस्तिपदनिरपेक्षत्वादन्तरङ्गेण वहुव्रीहिणा भवता उक्तार्थत्वान्मतुर्न भवति । अस्तीति किम् । गावोऽस्यानन्नराः, गावोऽस्य समीपाः । अनन्तरादिष्वपि स्यात् । इतिकरणो
1
॥ अई ॥ -- तद - ॥ - अस्तीति चेति | यदा अस्तिasदो धनार्थस्तदा स्तिमानित्युपपद्यते । यदा तु विद्यमानार्थस्तदा कथ द्वयोरेकार्थत्वादित्याह - सामान्याभिधायीति । अस्तीति क्रियापद सामान्याभिधायि सामान्येनास्तित्वमानप्रतिपादनात् । प्रकृतिभूतस्य स्वव्ययस्य विशेषाभिधायित्व विद्यमानत्वरूपविशेपस्याभिधानात् ॥ - अस्तीति वर्त्तमानेति । यद्यपि सूत्रे लिड्ग सख्या कालश्वातन्त्राणि तथापीह सूत्रे वर्त्तमानकालस्यैव प्राधान्यमस्तीतिपदोपादानादन्यथा किमनेन । न खलु पदार्थ. सत्ता व्यभिचरति । ततः सत्ताया निसर्गसिद्धायां यत्पुनरस्तीति ग्रहणं तद्वर्त्तमानकालार्थम् ॥ - एषैपेति । एषा या त्वया पृष्टा सा एपा वक्ष्यमाणेत्यर्थ ॥ कथं मतुरिति । वर्त्तमानत्वाभावादित्यर्थ ॥ धातोः सबन्ध इति । अनेन सूत्रेणायथाकालमपि प्रत्यया भवन्तीत्यर्थः । तेन प्रत्ययस्य वर्त्तमानकालस्वेऽपि भूतभविष्यत्कालतावगम ॥ - शवलगुरिति । शवलशब्दाद्वर्णवाचिनो गौरादित्वात् ङया शबल्यो गावोऽस्य सन्तीत्येव कार्यम् । यदा तु शलशब्दो गवि वर्त्तते तदा गौरादिवाभावादापि सति तद्धिताककोपान्त्य - ' इत्यनेन आख्याद्वारेण पुवश्वनिषेधात् शवलागुरित्येव स्यात् । शखोदकककुदावली द्वे