SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ 1 । ॥ १२९॥ क्लिन्नालचक्षुषि चिल् पिल् ल् चास्य ॥ ७ । १ । १३० ॥ निशब्दाचक्षुपि वाच्ये लः प्रत्ययो भवति तत्संनियोगे चास्य चिल् पिल् ल् इत्येते । भादेशा भवन्ति । चिल्लम् पिल्लम् चुल्लम् चक्षुः । तद्योगात्पुरुषोऽपि चिल्ल पिल्लः चुल्लः ॥ १३० ॥ उपत्यकाधित्यके ॥ ७ । १ । १३१ ॥ उपत्यका अधित्यका इत्येतौ शब्दौ निपात्येते । उपाधिशब्दाभ्यां यथासंख्यम् पर्वतस्यासन्नायामधिरूढायां च भुवि त्यकः प्रसयो निपात्यते । उपत्यका । अधित्यका । क्षिपकादित्वादिवाभावः । स्वभावतः स्त्रीलिङ्गावेतौ । पुंलिङ्गावपीति कचित् । उपत्यको देशः । अधित्यकः पन्थाः । निपातनं रूड्यर्थम् ॥ १३१ ॥ -अवेः संघातविस्तारे कपटम् ॥ ७ । १ । १३२ || अविशब्दात् सामर्थ्यात्पष्ठ्यन्तात्संघाते विस्तारे चार्थे यथासंख्यं कटपट इत्येतौ प्रत्ययौ भवतः । अवीनां संघातः अविकटः । अवीनां विस्तारः अविपटः | संघाते सामूहिकानां विस्तारे ऐदमर्थिकानां चापवादो योगः ॥ १३२ ॥ पशुभ्यः स्थाने गोष्ठः ॥ ७ । १ । १३३ ॥ पचनामभ्यः षष्ठ्यन्तेभ्यः स्थानेऽर्थे गोष्ठः प्रत्ययो भवति । इदमर्थानामपवादः । गवां स्थानं गोगोष्ठम् | महिषीगोष्ठम् | अश्वगोष्ठम् ॥ १३३ ॥ द्वित्वे गोयुगः ॥ ७ । १ । १३४ ॥ पशुनामभ्यः षष्ठ्यन्तेभ्यो द्वित्वेऽर्थे गोयुगः प्रत्ययो भवति । इदमर्थानामपवादः । गत्रोर्द्वित्वं गोगोयुगम् । अश्वगोयुगम् । उष्ट्रगोयुगम् ॥ ॥ १३४ ॥ षत्वे षड्गवः ॥ ७ । १ । १३५ ॥ पशुनामभ्यः षष्ठ्यन्तेभ्यः षट्वे गम्यमाने षङ्गवः प्रत्ययो भवति । उष्ट्राणां पदत्वम् उष्टपद्गवम् । हस्तिपुङ्गवम् । अश्वषङ्गवम् । इदमर्थानामपवादः || १३५ || तिलादिभ्यः स्नेहे तैलः ॥ ७ । १ । १३६ ॥ तिलादिभ्यः सामर्थ्यात्यन्तेभ्यः स्नेऽर्थे तैल इति प्रत्ययो भवति । विकारप्रत्ययापवादः । तिलानां स्नेहो विकारस्तिलतैलम् । सर्पपतैलम् । इङ्गुदतैलम् । एरण्डतैलम् ॥ १३६ ॥ तत्र घटते कर्मणष्ठः ॥ ७ । १ । १३७ ॥ कर्मन्शब्दात्तत्रेति सप्तम्यन्ताद्धटते इत्यर्थे ठः प्रत्ययो भवति । कर्मणि घटते कर्मठः ॥ १३७ ॥ तदस्य संजातं तारकादिभ्य इतः ॥ ७ । १ | १३८ ॥ तदिति प्रथमान्तेभ्यस्तारका इत्यादिभ्योऽस्येति षष्ठ्यर्थे इतः प्रत्ययो भवति यत्तत्प्रथमान्तं संजातं चेचद्भवति । तारका संजाता अस्य तारकितं नभः । पुष्पाणि संजातान्यस्य पुष्पितस्तरुः । तारका पुष्प कर्णक ऋजीप मूत्र पुरीप निष्क्रमण उच्चार विचार प्रचार आराल कुड्मल कुसुम मुकुल वकुल स्तवक पल्लव किशलय वेश वेग निद्रा तन्द्रा श्रद्धा बुभुक्षा पिपासा अभ्र श्वभ्र रोग अङ्गारक अङ्गार पर्णक द्रोह सुख दुःख उत्कण्ठा भर तर व्याधि कण्डूक कण्टक मञ्जरी कोरक अङ्गुर हस्तक पुलक रोमाञ्च हर्ष उत्कर्ष गर्व कल्लोल शृङ्गार अन्धकार कन्दल शैवल कुतूहल कुवलय कलङ्क कज्जूल कर्दम सीमन्त राग क्षुध् तृप् ज्वर गर दोह शास्त्र पण्डा मुकुर मुद्रा गर्ध फलं तिलक चन्द्रक । इति तारकादिः ॥ बहुवचनमाकृतिगणार्थम् ॥ १३८ ॥ गर्भादप्राणिनि ॥ ७ ॥ १ । १३९ ॥ गर्भशब्दात्तदस्य संजातमित्यर्थे इतः प्रत्ययो भवति । अप्राणिनि स चेत्यर्थः तेनाप्रकृष्टे अर्थे ब्रह्मदेयलक्षणे चिकिनमित्यादयो न भवन्ति ॥ अवे संघात ॥ सामर्थ्यादिति । पष्ठीमन्तरेण सवातविस्तारार्थयोरप्रतीते पचैव च प्रतीतेरित्यर्थ ॥संघात इति । अविवाब्दस्य कदपटशब्दाभ्यां सिद्धस्वरूपाभ्यां पष्ठीसमासे अविकट इत्यादि सिध्यति किमर्थं योग इत्याह- सामूहिकानामिति । 'पढथा. समूहे' इत्यादीनाम् ॥ ऐमार्थिकाना
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy