SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ ॥अथ सप्तमोऽध्यायः॥ Sea rtResecretree भ्यः॥७॥११॥ अधिकारोऽयम् । यदित ऊर्ध्वमनुक्रमिष्यापो यावत प्रकृतिसामान्यविषयमनुपातप्रकृतिविशेष प्रत्पयान्तरमीयोऽधिकरिष्यते तावत् तत्र य इत्येतदपवादविपर्य परिहत्याधिकृतं वेदितव्यम् ॥१॥ वहति रथयुगप्रासङ्गात् ॥७॥१॥२॥ तमित्यनुवर्तते । तमिति द्वितीयान्तेभ्यो स्थ. युगपासङ्ग इत्येतेभ्यो वहत्यर्थे यः प्रत्ययो भवति । रथं वहति रथ्यः द्वौ रथी वहात द्विरथ्यः। युगं वहति युग्यः । इहानभिधानान्न भवति । कालसंज्ञकं युगं वहति राजा, युगं वहति मनुष्यः । 'कुप्यभिद्य'-(५-१-३९) इत्यादिनिपातनादेव युग्य इति सिद्ध इदमर्थविवक्षायामण्वाधनार्थ युगग्रहणम् । यो हि युगं वहति स युगस्य संवन्धी भवति । प्रसज्यते इति प्रासनः। यत्काष्ठं वत्सानां दमनकाले स्कन्ध आसज्यते । तत् वहति यः स प्रासजयः। यत्त्वन्यत् यत्प्रसङ्गादागतं प्रासङ्गमिति तहति न भवत्यनभिधानात् । ननु यो रथं वहति स रथस्य वोढा भवति । तत्र 'रथात्सादेव बोदने 'यः'-(६-३-२७५) इसेव सिद्धम् तत्कि रथस्य ग्रहणेन । ससम् । अलुबर्थ तु तस्य ग्रहणं, तेन हिं ये विधीयमाने 'द्विगोरनपत्ये यस्वरादेर्लुबद्विः'-(६-१-२४) इति लुपा भवितव्यम् । यो रथयोर्वोढा द्विरथः । *अनेन तु विधीयमाने न भवति अपागूजितीयत्वात् । एवं च द्विगौ रूपयं संपन्नं भवति ॥२॥धुरो यैयण ॥७॥१॥३॥ धुर् इत्येतस्मात् द्वितीयान्तात् वहत्यर्थे य एयण् इत्येतौ प्रत्ययौ भवतः । धुरं वइति धुर्यः धौरेयः । एयण वेत्यकृत्वा यग्रहणमिदमर्थविवक्षायां वहयर्थेऽण्वाधनार्थम् । यो हि यदहति स तस्य संवन्धी । कश्चित् तु यडेयकगावपीच्छति तन्मते धुर्यः । खियां टित्त्वान् की धुरी । धौरेयकः ॥३॥ वामाद्यादेरीनः ॥७॥१॥ ४॥ वाम आदिर्येषां ते वामादयः । तत्पूर्वात् धुर् इत्येतदन्ताव द्वितीयान्ताद्वहत्यर्थे ईनः प्रत्ययो भवति । वामा पूर्वामधुरा । समासान्तादाप् । वामधुरां वहति वामधुरीणः । एवं सर्वधुरीणः । उत्तरधुरीणः । दक्षिणधुरीणः । वामादयः प्रयोगगम्याः। सर्वधुर्य इत्यत्र यप्रत्ययोऽपीति कश्चित् ॥ धुरीण इति केवलादपीन इत्यन्यः॥४॥ अश्चैकादेः ।।७।। ६॥ एकशब्दादेधुर् इत्येतदन्ताद्वितीयान्ताहित्यर्थे अः प्रययो भवति चकारादीनश्च । एका एकस्य वा धूरेकधुरा । एका धूरस्मिन्नेकधुरम् । तां तद्वा वहति एकधुरः। एकधुरीणः ॥ ५॥ हलसीरादिकम् ॥ ७॥१॥६॥ हलसीर इत्येताभ्यां द्वितीयान्ताभ्यां वहत्यर्थे इकण् प्रत्ययो भवति । हलं वहति हालिकः । सरि -यः।-प्रकृतिसामान्येति । प्रकृतिसामान्य विषयो यस्य अत एवानुपात प्रकृतिविशेपो या तस्प्रत्ययान्तरमीयलक्षणमित्यर्थः ॥ वह-||-युगं वहति मनुष्य इति । अकालसनकेपि युगे मनुष्ये वोदरि न भवतीत्यर्थ ॥-अनेन विति । नम्वत्र ग्रहणवता नाम्नेति न्यायादेव तदन्तस्य यो न भविष्यति तत्कथमुच्यते भलुवर्थमिति । उच्यते । एतदेव सूत्रकरण ज्ञापयति यत्तदन्तादपि भवति । यामा-॥-धुर् इत्येतदन्तादिति । ननु च वामधुरादिसमुदाय समासान्तादापि कृते पुरन्तो न भवति तत्र कथ धुरन्तादुच्यमानः wand
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy