SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ भ्यस्तदस्य पण्यमित्यस्मिन् विपये इकमायो भवति । किशरादयो गन्धद्रव्यविशेषवचनाः किशरं किसरो वा पण्यमस्य किशरिकः । किशरिकी सी। तगरिका। तगरिकी स्त्री । किशर तगर स्थगर उशीर हरिद्रा हारेगु हरिद्वपर्णी गुग्गुलु गुग्गुल नलद। इति किशरादिः॥ टकारो उन्यर्थः ॥ ५५ ॥ शलालनो वा ॥३ 48 लालशब्दावन्धविशेपवाचिनस्तदस्य पण्यमित्यास्मिन् विपये इकट् प्रत्ययो भवति वा । शलाल पण्यमस्य शलालुकः । शलालकी । पक्षे इकण । शालालकी ॥५६॥ शिल्पम् ॥६।४।५७ ॥ तदस्येति वर्तते । तदिति प्रथमान्तादरयेसर्थे इकण प्रत्ययो भवति यत्तत्मथमान्तं तच्चेच्छिल्पं भवति । शिल्पं कौशलम विज्ञानप्रकर्षः । अनेन तन्निवर्त्यः क्रियाविशेपो लक्ष्यते । नृत्तं शिल्पमरय नार्तिकः । गीतं गैतिकः। वादनं वादनिकः । मृदङ्गो मृदङ्गवादनं शिल्पमस्य पाडिका पाणविकः । मौरजिकः । वैणिकः । मदनादिशब्दा वादनार्थवृत्तयः प्रत्ययमुत्पादयन्ति +न द्रव्यवृत्तयः । उत्पादनार्थवृत्तिभ्यस्त्वनाभिधानान्न भवति । अत एव कुम्भकारादावभिधेये मृदङ्ग करणादिभ्य एव प्रत्ययः। मृदङ्गकरणं शिल्पमस्य मार्दङ्गकरणिकः । वैणाकरणिकः । मृदङ्गवादनादिभ्योऽप्यनभिधानान्न भवति । शिल्पार्थो वृत्तावन्तर्भूत इति शिल्पशब्दस्याप्रयोगः ॥ ५७ ।। मड्डुकझझरादाण ॥ ६ । ४ । ५८॥ मड्डुकझर्झर इत्यताभ्यां तदस्य शिल्पामेत्येतस्मिन् विषये अण् प्रत्ययो वा भवति । मड्डुकवादनं शिल्पमस्य माड्डुकः । झाझरः । पक्षे इकण । माड्डुकिकः । झारिकः॥५८ ॥ शीलम् ॥ ६ । ४ । ५९ ॥ | तदिति प्रथमान्तादस्येति पष्टयर्थे इकण प्रत्ययो भवति यत्तत्पथमान्तं तच्चेच्छीलं भवति । शीलं प्राणिनां स्वभावः । फलनिरपेक्षा प्रवृत्तिरिति यावत् । अपूपा | | अपूपभक्षणं शीलमस्य आपूपिकः । शालिकः । मौदकिक । ताम्बूलिकः । परुपवचनं शीलमस्य पारुपिकः । एवमाक्रोशिकः । मृदङ्गादिवदपूपादयः शब्दाः | क्रियावृत्तयः प्रत्ययमुत्पादयन्ति । शीलार्थो वृत्तावन्तर्भूत इति शीलशब्दस्याप्रयोगः ॥ ५९॥ अस्थाच्छच्चादेरञ् ॥ ६।४ । ६० ॥ अप्रत्ययान्तात्तिष्ठतेछत्र इत्यादिभ्यश्च तदस्य शीलमित्यस्मिन् विपयेऽञ् प्रत्ययो भवति । आस्था शीलमस्य आस्थः । सांस्थः । आवस्थः । सायास्थः । वैयवस्थः । नैष्ठः । वैष्ठः । उपसर्गादातः । (५-३-११०) इत्यः । आन्तस्थः । भिदादित्वाद । छन्त्रादि, छचं शीलमस्य छात्रः । छवशब्देन गुरुकार्येष्ववहितस्य शिष्यस्य छप्रक्रियातुल्या | गुरुच्छिद्राच्छादनाऽपायरक्षणादिका क्रियोच्यते उपचारात् । शिप्यो हि छन्नवद् गुरुच्छिद्रावरणादिप्रवृत्त छान्न इत्युच्यते । -अभ्यासापेक्षाsपि किया शीलमित्यच्यते।यथा शीलिता विद्येति।चुराशीलः चौरः ।तपशील: तापसः कर्मशील कामः । स्त्रियां छात्री चौरी तापसी । छत्र चुरा तपस् कर्मन् शिक्षा चक्षा चिक्षा शिल्पम् । -मृदङ्गादिशब्दा इति । आदिशब्दात् व्याकरणकरणादि शिल्पमस्येति धैयाकरणिकादग ॥-न द्रव्यवृत्तय इति । द्रव्यस्य शिल्पायोगाद्विपयाया' क्रियाया. शिल्पत्वमिति वादनार्थवृत्तय इत्युक्तम् ॥-कुम्भकारादाविति । केचिद्ग्रामेषु मुन्मया मृदसा भवन्ति । तेषा कुम्भकारादुत्पत्ति ॥-करणादिभ्य एवेति । न तु मृदाशब्दादित्यर्थः ॥-अस्था-॥ भड्चासौ स्थाश्च ॥ छत्रम् आदिर्यस्य अस्थाश्च छयादिश्च तस्मात् । अन्तर्मध्ये स्थान भिदायद्धि'व्यत्यये लुग्या' इति रलोप । अन्तस्थान वा अन्तस्था शीलमस्य ॥-अभ्यासापेक्षापीति । शील हि पाणिनां स्वभाव. । छात्रस्य तु न स खभाव इत्याशयोक्तम् ॥-चुक्षेति । चुक्षिः सौत्रो निर्मलीकरणे चुक्षा शौचम् चिक्षेति केचित् शिक्षीत्यस्य स्थाने चिक्षीति पठन्ति धात्वन्तर
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy