SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ है News ॥१४५॥ -पुरोडाशपौरांडाशादिकेकटौ ।।६।३।१४६॥ आभ्यां ग्रन्थवाचिभ्यां तस्य व्याख्याने तत्र भवे चार्थे इक इकट् इत्येतो प्रत्ययौ भवतः । अणाययोरिकणोऽपवादः । वचनभेदायथासंख्याभावः । इकेकटोः स्त्रियां विशेषः । पुरोडाशाः पिष्टपिण्डाः । तैः सहचरितो मन्त्रः पुरोडाशः तस्य व्याख्यानस्तान भवो वा पुरोडाशिकः । पुरोडाशिकी । पुरोडाशानामयं तत्र भवो वा पारोडाशः तत्संस्कारको मन्त्रस्तस्य व्याख्यानस्तत्र भवो वा पौरोडाशिकः । पौरांडाशिका। | पौरोडाशिकी ॥ १४६॥ छन्दसो यः॥६।३ । १४७ ॥ छन्दःशब्दाद्ग्रन्थवाचिनस्तस्य व्याख्याने ता भवे च यः प्रययो भवति । द्विस्वरेकणोऽपवादः। छन्दसो व्याख्यानस्तत्र भवो वा छन्दस्यः ॥ १४७ ॥ शिक्षादेवाण ॥६।३।१४८ ॥ शिक्षा इत्येवमादिभ्य छन्दःशब्दाच ग्रन्थवाचिनस्तस्य व्याख्याने तत्र भवे चार्थेण् प्रत्ययो भवति । इकणोपवादः । शिक्षाया व्याख्यानस्तत्र भवो वा शैक्षः । आगेयनः । छन्दस्, छान्दसः । एवं छन्दस्शब्दस्य द्वैरूप्यं भवति। अण्ग्रहणमीयबाधनार्थम् । नयायः । वास्तुविद्यः । शिक्षा ऋगयन पद व्याख्यान पदव्याख्यान छन्दोव्याख्यान छन्दोमान छन्दोभाप छन्दोविचिति छन्दोविचिती छन्दोविजिति न्याय पुनरुक्त निरुक्त व्याकरण निगम वास्तुविद्या अङ्गविद्या क्षत्रविद्या त्रिविद्या विद्या उत्पात उत्पाद संवत्सर। मुहूर्त निमित्त उपनिषद् ऋषि यज्ञ चर्चा क्रमेतर श्लक्ष्ण । इति शिक्षादिः । बहुवराणामदुसंज्ञकानामुपादानं प्रायोग्रहणस्य प्रपञ्चः ॥ १४८ ॥ तत आगते ॥६।३ । १४९ ॥ तत इति पञ्चम्यन्तादागतेऽर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । मुनादागतः स्त्रौनः । माथुरः । औत्सः । गव्यः । दैत्यः । बाह्यः। कालयः । आग्नेयः । स्त्रैणः । पौतः । नादेयः । राष्ट्रियः । ग्रामीणः । ग्राम्यः । मुख्यापादानपरिग्रहात्तुनादागच्छन् वृक्षमूलादागत इत्यत्र वृक्षमूलानान्तरीयकापादानान भवति ॥ १४९ ॥ विद्यायोनिसंबन्धादकम् ॥ ६।३ । १५० ॥ विद्याकृतो योनिकृतश्च संवन्धो येषां तद्वाचिभ्यः पञ्चम्यन्तेभ्य आगतेऽर्थेऽकन् प्रत्ययो भवति । अणोऽपवादः । इयं तु परत्वाद्धाधते । विद्यासंबन्धः, आचार्यादागतमाचार्यकम् । औपाध्यायकम् । शैष्यकम । आविजकम् । आन्तेवासकम् । योनिसंवन्ध, पैतामहकम् । मातामहकम् । पैतृव्यकम् । मातुलकम् ॥ १५० ॥ पितुर्यो वा ॥६।३।१५१ ॥ पितृशब्दाद्योनिसंवन्धवाचिनः पञ्चम्यन्तादागतेऽर्थे यः प्रत्ययो वा भवति । इकणाऽपवादः । पितुरागतं पित्र्यम् । 'ऋतो रस्तद्धिते (१-२-२६) इति रत्वम् । पक्षे पैतृकम् ॥ १५१ ॥ ऋत इकण ॥ ६।३।१५२ ॥ अकारान्ताद्विद्यायोनिसंवन्धवाचिनः पञ्चम्यन्तादागतेऽर्थे इकण् प्रत्ययो भवति । अकोऽपवादः। होतुरागतं होतकत्वात् ॥-पुरो-॥-अणीययोरिति । पुरोडाशादण. पौरोडाशादीयस्य प्राप्तिकल्पनाया तु द्वाभ्यामपि प्रायोबहुस्वरादिकणोऽपवादोऽयम् ॥-शिक्षा-|-अणग्रहणमिति । ननु किमर्थमत्राणग्रहण योन्येन बाधितो न प्रामोतीति न्यायाढणेव भविष्यतीत्यापड्का॥-प्रपञ्च इति । ननु दुसज्ञानामीयवाधनार्थ क्रियतां पाठः । ये तु बहुस्वरा अदुसज्ञकास्त्रपामुपादान कथ कृतं | यत 'प्रायो बहुस्वरात् । इति सूत्रे प्रायोग्रहणादेषा न भविष्यतीकण् किं तु अणेवेत्यागका ॥-विद्या-॥-विद्याकृत इति । विद्या च योनिश्च सबन्धो यस्येति 23 बहुबीहिः । भत्र विद्याकृते सबन्धे विद्याशब्दो योनिकतेच योनिशब्द उपचारादर्थे च कार्यासभवाद्वियायोनिसबन्धवाचिनः प्रतिपत्चिरित्याह--विद्याकृतइत्यादि CONCE
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy