________________
| देवदत्तः । क्रोडशब्दः स्वाङ्गेऽपि वर्तते । देवदत्तशब्दः पुंस्यपि क्रियाशब्दश्च । ईयादाविति किम् । आयनिजादौ न भवति ॥ ९॥ माग्देशे ॥६।१। * ॥१०॥ प्रान्देशे वर्तमानस्य यस्य शब्दस्य खरेष्वादिः खर एकार ओकारो वा भवति स ईयादौ प्रत्यये विधातव्ये दुसंज्ञो भवति । कः पुनः प्राग्देशः
यः शरावत्याः सरितः पूर्वोत्तरेण वहन्त्याः पूर्वतो दक्षिणतो वा भवति । यस्तु पश्चिमत उत्तरतो वा स उदक् । यदाहुः प्रागुदश्चौ विभजते हंसः क्षीरोदके यथा । विदुषां शब्दसिद्ध्यै या सा व पायाच्छरावती ॥ १॥ एणीपचने भव एणीपचनीयः । गोनर्दीयः । भोजकटीयः । कोशक्षीयः। गोमयहूदीयः । एकचक्रकः। क्रोडं नाम पागग्रामस्तत्र भवः क्रोडीयः । देवदत्तं नाम मागग्रामस्तस्य काश्यादिपाठात् णिकेकणौ । दैवदत्तिका । दैवदत्तिकी । पूर्वकं देशग्रहणम् एवकारेण संवद्धमिति पुनरिह देशग्रहणम् । प्रदेश एवेति नियमनिवृत्त्यर्थं वचनम् ॥ १०॥ *वाद्यात् ॥६।१।११॥ वा इति च आयादिति च द्वितयमधिकृतं वेदितव्यम् । तत्र वाधिकारादित ऊर्ध्वं वक्ष्यमाणाः प्रत्यया विकल्प्यन्ते । तेन पक्षे यथाप्राप्तं वाक्यं समासश्च भवति । उपगोरपत्यम् । उपग्वपत्यम् इति । *उत्सर्गरूपस्तु तद्धितोऽपवादविपये 'पीलासाल्वामण्डूकाद्वा' (६-१-६८) इत्यादौ वाग्रहणान्न भवति । आधादित्यधिकारात्सूत्रे यदादौ निर्दिष्टं तस्मात्मत्ययो भवति नान्यस्मात । तेन 'सास्य'-(६-२-९८) इत्यधिकारे देवतेत्यादौ सेति प्रकृतिरस्येति प्रत्ययार्थो व्यवस्थितो भवति । इन्द्रो देवतास्य ऐन्द्रम हविः । ऐन्द्रो मन्त्रः ॥११॥
गोत्रोत्तरपदागोत्रादिवाजिहाकात्यहरितकात्यात् ॥६।१।१२॥ गोत्रमपत्यम् । जिह्वाकात्यहरितकात्यवर्जितागोत्रप्रत्ययान्तोत्तरपदात् यद्गोत्रप्रत्ययान्तमुत्त2 पदं तस्मादिव वक्ष्यमाणः प्रत्ययो भवति । यथेह ईयो भवति चारायणीयाः पाणिनीयाः जैमिनीयाः रौढीयाः तथा कम्बलचारायणीयाः ओदनपाणिनीयाः कडारजैमि
प्राणिनोऽनया नन्दी चासावध्ययनं च इति वा ॥-आयनिनादाविति । उपचारात् सेपुरस्थ पुरुषोऽपि सेपुरस्तस्यापत्यमद्धादायनिभ् । न च वक्तव्यं देशे एव न वर्तते इति मुख्याभिधेयापेक्षया देशे एव वर्तते इत्युक्तमन्यथा सर्वेऽपि शन्दा उपचारेण स्वार्थ त्यजन्त्येव ॥-पाग्द-|| प्राङ् चासौ देशश्च प्राचा देश इति वा ॥-पूर्वोत्तरेणेति । पूर्वावयवयोगात्पूर्वम् उत्तरावयवयोगादन्तरालमुत्तरं पूर्व च तदुत्तर च ॥ ईशानतो नैर्ऋतं गच्छति ॥-गोमयहदीय इति । वाहीकेषु वाधक 'कखोपान्त्य '-इति ईय । ननु प्राचीति क्रियता देशाधिकारे सति कि पुनर्देशग्रहणेनेत्याह-एवकारेण संवद्धमिति । तदनुवृत्तावेवकारोऽप्यनुवर्तत तन्नित्यर्थं पुनर्गणमित्यर्थ । ननु प्राचीति सूत्रकरणसामर्थ्यादेवकाररहित एव देश इत्यनुवर्तिप्यते । यदि येवकारसबद्धं देश इत्यनुवर्तिष्यते तदा प्राचीत्येतदपि
न कुर्यात्पूर्वण सामान्येन सिद्धत्वात् । सत्यम् । प्राचीति कृते सूत्रसामर्थ्यात्प्राचि कालेऽपि वर्तमानस्य दुसंज्ञा स्यादित्यप्याशका स्यादिति देशग्रहणम् । पूर्वसूत्रे सामान्ये देशे दुसंज्ञा सामान्यमध्ये विशेषो IX बदित एव तत कि वचनेनेत्पाद-देश एवेति ॥-वाद्यात् । नन्वत्र यथा वक्ष्यमाणतद्धितप्रत्ययाना विकल्पनात् पक्षे वाक्यसमासौ दश्यते तथा कथमपवादप्रत्ययाना विफल्पने पो नोत्सर्गप्रत्यय ||*
इत्याह-उत्सर्गेत्यादि । व्यवस्थितो भवतीति । आधादिति विना तु अस्येति प्रकृतिदेवतार्थे इत्यपि स्यात् ॥ गोत्रो-1-परमश्रासौ गार्ग्यश्च परमगार्ग्यस्तस्यापत्यं पारमगाायण इति न भवति शैषिकेऽर्थे सूपस्य प्रस्त्तत्वात् । शैपिक कथं लभ्यते इति चेत् । सत्यम् ॥ ईयादावित्यधिकारे ईयस्यादिरीय आदिरस्येति च समासात् ॥-पाणिनीया इति । पणनं पण । 'पणेर्माने ' अल् । पणोऽस्यास्तीति पणी । 'अतोऽनेफस्वरात ' इन् । पणिनोऽपत्यं रद्धं । 'सोपत्ये' अण् पाणिनस्यापत्यं युवा । 'अत इम् ।। पाणिनेरिमे च्छात्रा ईयविषये 'गनि छप्' इति इलो लपि