________________
13APG
उपाध्यायक्षेतवः शीघ्रमागमिष्यति एते श्वः लिममध्येष्यामहे । आशंसाथै खल्वपि । उपाध्यायश्चेदागच्छति आगमत् आगमिष्यति आगन्ता आशंसेऽवकल्पये संभावये यतोऽधीयीय । ट्रयारुपपदयोः सप्तम्येव भवति शब्दतः परत्वात् । आशंसे लिममधीयीय ॥३॥ "संभावने सिद्धवत् ॥ ५॥४॥४॥ देतो शक्तिशाटानं संभावनम । तस्मिन्विपयेऽसिद्धेऽपि वस्तुनि सिद्धवत्सत्यया भवन्ति । समये चेत्ययत्नोऽभूत उदभवन विभूतयः । इषे चेन्माधवोऽवीत | समपत्सत शालयः ॥ जातश्चायं मुखेन्दुश्चेत् भृकुटिमणयी पुनः । ॐगतं च वसुदेवस्य कुलं नामावशेषताम् ॥४॥ नानद्यतनः प्रबन्धासत्योः ॥५॥४॥५॥ प्रबन्धः सातत्यम् आसत्तिः मामीप्यम् । तच कालतः । सजातीयेन कालेनाव्यवहितकालतेति यावत् । धात्वर्थस्य प्रवन्धे आसत्तौ च गम्यमानायां धातोरनद्यतनविहितः प्रत्ययो न भवति । भूतानंद्यतने हस्तनी भविष्यदनद्यतने च श्वस्तनी विहिता तयोः प्रतिषेधः । यावज्जीवं भृशमन्नमदात । यावजीवं भशमनं दत्तवान् । यावज्जीव भृशमन्नं दास्यति । यावज्जीवं युक्तोऽध्यापिपत् । यावज्जीवं युक्तोऽध्यापयिष्यति । आसत्तो खल्लपि । येयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावर्तिष्ट, प्रवृत्तः। येयं पौर्णमास्यागामिनी अस्यां जिनमहः प्रवर्तिष्यते। द्वौ प्रतिपेधौ भ्यथामाप्तस्याभ्यनुज्ञानाय । केचित्तु अनद्यतनविशेषविहितानामपि परोक्षादीनां पतिपेधमिच्छन्ति ॥५॥ एष्यत्यवधी देशस्यागभागे ॥५॥४॥६॥ देशस्य योऽवधिस्तद्वाचिन्युपपदे देशस्यैवार्वागभागे य एष्यन्नर्थस्तत्र वर्तमानाद्धातोरनद्यतनविहितः प्रत्ययो न भवति । अभवन्धार्थमनासत्त्यर्थं च वचनम् । यद्यप्यनद्यतन इति प्रकृतं तथापीहैष्यतीति वचनात् श्वस्तन्या एव निषेधः । योऽयमध्वा गन्तव्य आ शत्रुजयात् तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोश्यामहे । द्विः सक्तून्पास्यामः । योऽयमध्वा गन्तव्य आ पाटलिपुत्रात् तस्य भप्सति हि भविष्यम्तीग्रहणे यथा प्राप्तस्य भविष्यत्प्रत्ययस्य प्रत्युजीवनं भवति । भविष्यत्प्रत्ययश्च भविष्यदऽयतने भविष्यन्ती भविष्यदनयतने तु शस्तनी प्राप्नुयात् । इदानीं पुनर्भविष्यत्ययतनेऽनघतने च क्षिप्रार्थे उपपदे भविष्यन्त्येव न तु श्वस्तनी ॥ योरुपपद्योरिति । क्षिप्राशसार्थयोर्युगपत्प्रयोगे क्षिप्रार्थोपपदनिवन्धना भविष्यन्ती आशसार्थनियन्धना सप्तमी वा भवतीत्याह-शव्दत परत्वादिति ॥-संभावने-॥-जातश्चायं-गतं चेति । अजनि जायते स्म अगमत् गच्छति स्मेति वाक्य कार्य न तु गमिष्यति जानियत इति तत्राप्यस्य सूत्रस्प प्रवर्तनात् ॥-नानद्यतन:-॥ न अद्यतनोऽनद्यतन इति कार्य न तु न विद्यते अद्यतनो यत्रेति। यतो यहुप्रीहेापकत्वात् परोक्षाया अपि निषेध स्यात् तत्राप्यचतनो नास्तीति कृत्वा । नञ्तत्पुरुषे तु सामान्ये कृते विशेपो नान्तर्भवति सामान्यमध्ये विशेषाऽयोगात् ॥-तयोः प्रतिषेध इति । सामान्यातिदेशे विशेषानतिदेश इति न्यायाल्सामान्यानयतनस्यैव प्रतिषेधो न विशेपानद्यतनस्य । तेन परोक्षाया न प्रतिषेधः।यापजीवमिति । यावन्त काल जीव्यते भावे ' यावतो दिन्दजीवः' यावच्छब्दात् कालाध्वनो:- कालाध्व-' इति वा द्वितीया यावजीवंशब्दातु प्रथमासिः । यावत्रीवं यावद्वर्त्तते ताबद्ददातीत्यर्थ. ॥ यथाप्राप्तस्याभ्यनुमानायेति । द्वौ नौ प्रकृतार्थ गमयत इति न्यायात् । ननु तद्यतनः प्रबन्धासत्योरिति विधिसूत्रं कर्तव्यं विधिप्रतिषेधसंभवे हि विधेरेव ज्यायस्त्वात् ॥ एवमपि ते अद्यतनी भविष्यन्ती सेत्स्यत । नैवम् । अद्यभवोऽद्यतनः। अनया व्युत्पत्या वर्तमानापि स्यात् ॥-प्रतिषेधमिच्छन्तीति । स्वमते तु सामान्यातिदेशे विशेषस्यानतिदेशात् परोक्षादीनां न निषेधः । एव च भूतानघतने अद्यतनीकप्रत्यययोविधिभविष्यदनयतने च भविष्यन्त्या एव ।-एण्यत्यव-॥ मत्र सूत्रे देशः प्रदेशमात्र तेनाऽध्वनोऽपि देशता 'कालाध्वभाव -' इत्यत्र तु देशो