SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ 4 श्रीहेमश० स्म = ~ - ॥ ९०९ ॥ प्रात्सदिरीरिणस्तोऽन्तश्च ॥९१० प्रपूर्वेभ्यः सधादिभ्यः कनिए मसयस्तोऽन्तश्च भवति । पल विशरणगत्यवसादनेषु । प्रसत्ता मूढः वायुध । १६५००वि प्रसत्त्वरी माता प्रतिपत्तिश्च । रीश् गतिरेपणयोः । मरीत्वा वायुः । परीत्वरी स्त्रीविशेषः । इरिक गतिकम्पनयोः । मेवा सागरः वायुश्च । मेवरी नगरी। इणं गतौ। त्वरी नगरीत्याहुः ॥ ९१० ॥ मन् ॥ ९११ ॥ सर्वधातुभ्यो बहुलं मन् प्रत्ययो भवति । डुक्कंग करणे । कर्म व्यापारः । ग्ट् वरणे । वर्म कवचम् । तूवर्तने । वम पन्थाः । चर भक्षणे च । चर्म अजिनम् । भस भर्सनदीप्त्योः सौत्रः। भसितं तदिति भस्म भूतिः । जनैचि प्रादुर्भावे । जन्म उत्पत्तिः । शुश् हिंसायाम् । शर्म सुखम् । वसवोऽस्य दुरितं शीर्यासरित वसुशर्मा । एवं हरिशर्मा। मृत् प्राणत्यागे। मर्म जीवमदेशप्रचयस्थानम् । यत्र जायमाना वेदना महती जायते । नेश नये । नर्म परिहासकथा। लिपंच आलिङ्गने। श्लेष्मा कफः। उप रुजायाम् । ऊष्मा ताप । टुडु भृगक पोपणे च। भर्म सुवर्णम् । यांक प्रापणे । यामा रथः। वाक् गतिगन्धनयो । वामा करचर हस्वः। पांच रक्षणे । पामा कच्छ्र: । वृष सेचने । वर्ण शरीरम् । पद्ल विशरणगत्यवसादनेषु । सम गृहम् । विशंत प्रवेशने । वेश्म गृहम् । हिट् गतिवृद्ध्यो । हेम सुवर्णम् । छदण् अपवारणे । छद्म माया । दीड्च् क्षये, देङ् पालने वा । दाम रज्जुः माता च । डु धांग्क् धारणे च । धाम स्थानं तेजश्च । ष्ठां गतिनिवृत्तौ ।। स्थाम बलम् । डुंगट् अभिपवे । सोमा यज्ञः पयो रसः चन्द्रमाश्च । अशौटि व्याप्तौ । अश्मा पापाणः । लक्षीण दर्शनाइनयोः । लक्ष्म चिह्नम् । अयि गतौ । अम्म संग्रामः । तक् हसने । तक्मा रतिः आतपः दीपश्च । हुक् दानादनयोः । होम हव्यद्रव्यम् अग्निहोत्रशाला च। धृग् धारणे । धर्म पुण्यम् । विपूर्वात् विधर्मा आहितः वायुः व्यभिचारश्च । व्य चिन्तायाम् । व्याम ध्यानम् ॥ ९११ ॥ कुष्युषिसपिभ्यः कित् ॥ ९१२ ॥ एभ्यः कित् मन् प्रत्ययो भवति । कुपश् निष्कपें । कुष्म शल्यम् । उघू दाहे । उप्मा दाहः । सप्लं गतौ । सप्मा सर्पः शिशुः यतिश्च ॥ ९१२॥ वृहेनोऽच ॥ ९१३ ॥ वृहु शब्द इत्यस्मात् मन् प्रत्ययो भवति नकारस्य चाकारः । ब्रह्म परं तेज. अध्ययनं मोक्षः । वृहत्त्वादात्मा । ब्रह्मा भगवान् ॥ ९१३ ॥ व्येग एदोतौ च वा ॥ ९१४ ॥ व्यग् संवरणे इत्यस्मात् मन् प्रत्यय एदोतौ चान्तादेशौ वा भवतः । व्यम वस्त्रम् । व्यमा संसारः कुविन्दभाण्डं च । व्योम नभः । पक्षे, व्याम न्यग्रोधाख्यं प्रमाणम् । ॥९१४ ॥ स्यतेरी च वा ॥ ९१५ ॥ पोच अन्तकर्मणि इत्यस्मात मन् प्रत्यय ईकारश्चान्तादेशो वा भवति । सीमा आघाटः । पक्षे, साम प्रियवचनं वामदेव्यादि च ॥ ९१५॥ सात्मन्नात्मन्वेमन्नोमन्लोमनललामन्नामन्पाप्मन्पक्ष्मन्यक्ष्मन्निति ॥९१६॥ एते मन्मत्ययान्ता निपात्यन्ते । स्यतेस्तोऽन्तश्च । मात्म अत्यन्ताभ्यस्तं प्रकृतिभूतम् अन्तकर्म च । अतेः दीर्घश्च । आत्मा जीवः । वेग आत्वाभावश्च । वेम तन्तुवायोपकरणम् । रुहेर्लक् च । रोम तनूरुहम् । लत्वे, लोम तदेव । क्लमेरोच । लोम शरीरान्तरवयवः । लातेद्वित्वं च । ललाम भूषणादि । नमेरा च । नाम संज्ञा कीर्तिश्च । पातयतेस्तः प् च । पाप्मा पापं रक्षश्च । पञ्चः कः पोऽन्तो नलोपश्च । पक्ष्म अक्ष्यादिलोम । यस्यतेः याक्षिणो वा यक्ष्मा रोगः। इतिकरणात तोक्मरुक्मादयो भवन्ति ॥ ९१६ ॥ हृजनिभ्यामिमन् ॥ ११७ ॥ Kescoverest ॥६१
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy