________________
| किम् । उपोयते। औयत । लौयमानिः । क्यवर्जनाद्यकारादिः प्रत्ययो गृह्यते तेनेह न भवति । गोयूतिः। नौयानम् । कथं गव्यूतिः कोशद्वयम् । कोशयो
जनादिवदव्युत्पन्नः संज्ञाशब्दोऽयम् । गवा यूतिर्गम्यूतिरिति व्युत्पत्तिपक्षे तु पृपोदरादित्वाद्भविष्यति । *शरव्यमिति तु शरसमानार्थात् शरुशब्दादुवर्णान्तलक्षणे ये, शरान व्ययतीति वा डे भविष्यतीति ॥ २५ ।। *ऋतो रस्तद्धिते ॥१॥२॥२६॥ त ऋकारस्य यकारादौ तद्धिते परे रादेशो भवति । पितरि साधु पित्र्यम् ।भ्राव्यम् । तद्धिते इति किम् । कार्यम् ॥ २६ ॥ भएदोतः पदान्तेऽस्य लक। १।२।२७ ॥ एदोद्भ्यां पदान्ते वर्तमानाभ्या परस्याकारस्य लुग्भवति । तेऽत्र । पटोऽत्र । यजन्तेऽत्र । एदोत इति किम् । दध्यत्र । पदान्त इति किम् । नयनम् । लवनम् । अस्येति किम् । तयिह । पटविह ॥ २७ ॥ भगोनाम्न्यवोऽक्षे॥॥२॥२८॥ गोरोकारस्य पदान्ते वर्तमानस्याक्षशब्द परे *नान्नि संज्ञायां गम्यमानायामव इत्ययमादेशो भवति । गोरक्षीव, अप्राण्यङ्गत्वात्समासान्तेऽति गवाक्षो वातायनः। नान्नीति किम् । गवामक्षाणि गोऽक्षाणि । गो अक्षाणि । कश्चित्त्वसंज्ञायां गवाक्षाणीत्यपीच्छति ॥२८॥ *स्वरेवानक्षे।१।२।२९॥ गोरोकारस्य पदान्ते वर्तमानस्य स्वरे परेऽव इत्ययमादेशो वा भवति, अनक्षे-*स चेत्स्वरोऽक्षशब्दस्थो न भवति । गवायम् । गवाजिनम् । गवोधः। गवौदनः। गवेश्वरः । पक्षे यथाप्राप्तम् । गोऽग्रम् । गोऽजिनम् । गोअग्रम् । गोअजिनम् । गqष्ट्रः। गवोदनः। गवीश्वरः । स्वर इति किम् । गोकुलम् । अनक्ष इति किम् । गोऽक्षम् । गोअक्षम् । पदान्त इत्येव । गवि । *ओत इत्येव । चित्रग्वर्थः । गोरित्येव । द्योऽयम् । हे चित्रगवुदकमित्यत्र तु लाक्षणिकत्वाद्गोशब्दस्य न भवति ॥२९॥ *इन्द्रे । ११२।३० ॥ गोरोकारस्य पदान्ते वर्तमानस्येन्द्रस्थे स्वरे परेऽव इत्ययमादेशो भवति । गवेन्द्रः । गवेन्द्रयज्ञः।
युगादेर्य ' सिद्ध ॥ शरशब्दाद्यप्रत्यये ओकाराभावान्यादेशाभावे कथ शरब्यमित्याशइक्याह-शरव्यमितीति ॥-ऋतो-॥ ननु कार्यमित्यत्र परत्वात् ध्यणित्यत्र णोपदेशाद्वा वृद्धिरेव भविष्यति कि तद्धितग्रहणेन । सत्यम् । अत्र तदितग्रहण विना जागृयात् इवात् इत्यनयो रत स्यात् ॥ ननु परिसर्चेत्यत्रापि प्राप्नोति । न । तमान्यदपि वक्तु शक्यम् क्यपोऽधिकारे यग्रहण गुणार्थमिति ॥पदोत:-॥ यद्यपि पदान्त इति व्यधिकरण विशेषणमकारस्येदोतच सभवति, तथाप्येदोतोरेव कर्तव्यम् ॥ ‘गो म्यवोऽझे' इत्यत्राकारलोपपाधनार्थमवादेशविधानात् । अकारस्य पदान्त इति विशेषणे गवाक्ष इत्यत्रापदान्तत्वादकारस्य लोपप्राप्तिरेव नास्ति कुतस्तदपवादोऽवादेश सभवति । किच 'एदोत '-इत्यत्रेव सूत्रेऽस्येत्यस्मिन्नेव सूत्राशेऽकारस्य नामसिदिति पदवे 'एदोत पदान्ते' इत्यनेन लोपप्रातिर्नान्यत्रेति एदोतोरेव पदान्त इति विशेषणमिति ॥--गोनाम्न्य-||-नास्ति संज्ञायामिति । 'कृत्रिमाकृत्रिमयो कृत्रिमे कार्यसंप्रत्यय' इति न्यायेन नात्र पारिभाषिकस्य नाम्नो ग्रहण गोऽक्षयो मत्वाव्यभिचारात, किंतु निरुट लौकिकमेवेत्याह-नास्नि सशायामिति ॥ सा च समुदायेनैव गम्यते नावयवैरित्याह-गम्यमानायामिति ॥-स्वरे वा॥ न अक्षोऽनक्ष इति प्रसज्यवृत्तिर्नञ् । पर्युदासे हि विधे प्राधान्यात् प्रतिषेधस्य तु सामर्थ्यप्रापितत्वात् गोऽक्षसघात इत्यादी अनक्षविधिरेव स्यात् न त्वक्षाश्रित प्रतिषेध । प्रसज्ये तु प्रतिपेधस्य प्रधानत्वात् अक्षादिसमुदायस्थेऽप्यक्षशब्देऽक्षाश्रित प्रतिषेध सिव्यतीत्याह-स चेत् स्वर इत्यादि ।-प्रोत इत्येवेति ॥ चित्रा गावो यस्य स चित्रगु । पुवद्भावो हस्वत्व च ॥ ततश्चित्रगवेऽय चित्रग्वधं इति । अत्र ओत इत्यनुवृत्तिमन्तरेण हत्यत्वे कृते 'एकदेशविकृतमनन्यवत्' इति एकदेशविकृतोऽप्यय गोशब्द एवेत्यत्रापि स्यादित्यर्थ ॥-इन्द्रे॥ स्वर इत्यस्या