SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ 2233 ३९ ॥ एते क्यवन्ताः संज्ञायां निपात्यन्ते । गुणैः क्यप् आदिकत्वं च धनेऽर्थे । गोपाय्यते तदिति कुप्यं धनम् । गोपाय्यमन्यत् । भिदेरुज्झेश्च नदेऽभिधेये क्यप् उज्झेत्वं च । भिनत्ति कुलानि इति भिद्यः । उज्झत्युदकम् उद्ध्यः । अन्यत्र भेत्ता उज्झिता । सिधिविपपुषिभ्यो नक्षत्रेऽभिधेये क्यप् लिपेलोपश्च । सिध्यन्ति त्वेषन्ति पुष्यन्ति अस्मिन्कार्याणीति सिव्यः तिष्यः पुण्यः । अन्यत्र सेधनः त्वेषणः, पोषणः । युजेः क्यप् गत्वं च वाहनेऽभिधेये । युञ्जन्ति तदिति युग्यं वाहनम् गजाश्वादि । योग्यमन्यत् । आङ्पूर्वादजेर्धृतेऽर्थे क्यप् । आञ्जन्त्यनेनेति आज्यं घृतम् । आञ्जनमन्यत् । सर्तेः क्यप् ऋकारस्योर्, सुवतेर्वा क्यप् रान्तव देवतायाम् । सरति सुत्रति वा कर्मसु लोकानिति सूर्यो देवता । बहुलाधिकारान्निपातनसामर्थ्याद्वानुक्तोऽपि निपातनेषु कारकविशेषो गम्यते ॥ ३९ ॥ दृवृस्तुजुषेतिशासः ॥ ५ । १ । ४० ॥ एभ्यः क्यप् भवति । ह, आहत्यः । वृग् मावृत्यः । वृङस्तु वार्या ऋत्विजः । स्तु स्तुत्यः । अवश्यस्तुत्य । जुष्यः । एतीति * इणिकोग्रहणम् । इसः । अधीसः । अयतेरिङश्च न भवति । उपेयम् । अध्येयम् । इकोऽप्यध्येयमित्येके । ईयतेरप्युपेयमिति भवति । शास्, शिष्यः । आशासेस्तु आशास्यमन्यत् पुनरुक्तभूतम् इति । कथमनिवाय गजैरन्यैः स्वभाव इव देहिनाम् इति, संभक्तेरन्यत्रापि वृद्धं ॥ ४० ॥ ऋदुपान्त्यादपि दृचः ॥ ५ । १ । ४१ ॥ ऋकारोपान्त्याद्धातोः कृपिचृतिऋचिवर्जितात् क्यप् भवति । नृत्यम् । वृध्यम् । गृध्यम् । गृध्यम् । अपिचच इति किम् । कल्प्यम् । चत्र्त्यम् । अर्च्यम् ॥ ४१ ॥ वृषमृजिशंसिगुहिदुहिजो वा ॥ ५ । १ । ४२ ॥ एभ्य. क्यप् वा भवतेि । कृत्यम् । कार्यम् । वृष्यम् । वर्ण्यम् । मृज्यम् | मार्ग्यम् । शस्यम् । शंस्यम् । गुह्यम् । गोह्यम् | दुह्यम् । दोह्यम् | जप्यम् | जाप्यम्। जपेरपि 'क्यवभावपक्षे ध्यण् विकल्पसामर्थ्यात् ॥ ४१ ॥ जिविपून्यो हलिमुञ्जल्के || ५ | ११४३॥ जयतेर्विपूर्वाभ्यां च | पूनीभ्यां यथासंख्यं हलिमुञ्ज कल्केषु कर्मसु वाच्येषु क्यप् मसयो भवति । महद्धलं हलिः । मुञ्जस्तृणविशेषः । कल्कखिफलादीनाम् । जीयते निपुणेनेति जित्या जित्यो वा हलिः। पूङ् पूग् वा । विपवितव्यो विपूयो मुञ्जः । पूगो नेच्छन्त्येके । विनेतव्यस्तैलादिना मध्ये इति विनीयः कल्कः । हलिमुञ्जकक इति किम् | जेयम्। विपव्यम् । विनेयम् ॥४३॥ पास्वैरिवाया ग्रहः ॥ ५ । १ । ४४ ॥ विभक्त्यन्तं पदम् । अस्वैरी परतन्त्रः । वाद्या वहिर्भवा । पक्ष्यो वर्ग्यः । एष्वर्थेषु ग्रहः क्यप् भवति । ध्यणोऽपवादः । प्रगृह्यते विशेषेण ज्ञायते प्रगृह्यं पदम् । यत्स्वरेण न संधीयते अग्नी इति । अवगृह्यते नानावयवसात्क्रियते अवगृह्यं पदम् । अस्वैरिणि, गृह्याः कामिनः । रागादिपरतन्त्रा इयर्थः । वाह्यायां ग्रामगृह्या श्रेणिः । नगरगृह्या सेना । वाह्येत्यर्थः । स्त्रीलिङ्ग निर्देशो लिङ्गान्तरेऽनभिधानख्यापनार्थ । पक्ष्ये, त्वद्गृहाः । मद्गृहाः । गुणगृह्या वचने विपश्चितः । तत्पक्षाश्रिता इत्यर्थः । एष्वति किम् । ग्राह्यं वचः ॥ ४४ ॥ * भृगोऽसंज्ञायाम् ॥ ५ । १ । ४५ ॥ भृगो धातोरसंज्ञायां क्यप् भवति । || - डवृग् - - इणिकोर्ग्रहणमिति । इडस्तु परस्मैपद्यादादिकसाहचर्यात् निरास ॥ - आशास्यमन्यदिति । आड कावेवेति नियमान्न शिपादेश ॥ कुवपि ॥ कथवऽभावपक्षे व्यणिति । 'शकित कि' - इति यप्रत्यये तु विशेषाऽभाव ॥ - जिविपून्यो - ॥ तैलादिना मध्ये इति । तैलादिना कर्त्रात्मनो मध्ये विनेतव्य' । कोऽर्थं प्रापयितव्य । यद्वा मध्ये वर्तमानेन तैलादिना उत्कर्ष विनेतन्य || पदास्वैरि - || प्रगृहां पदमिति । परस्वरेणाऽसधीयमानस्य पदस्य प्रगृसमिति सज्ञा विहिता ॥ - नानावयव साकियत इति । यथा पचतीत्यत्र पच् शब् तिव् इत्यऽवयवा ॥ - भृगोसं - ॥
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy