________________
Neem
॥२३॥ धाग्यापाययसान्नायनिकाय्यमृङ्मानहविर्निवासे ॥५।१ ।२४ ॥ धाय्यादयः शन्दा ऋगादिपर्येषु यथासंख्य पणन्ता निपात्यन्ते ।। निपातनादेव च सर्वत्रायादेशः । दधाते–चि, धीयते समिदग्नावनयेति धाय्या ऋक् । रूद्विशब्दत्वात्काश्चिदेव ऋच उच्यन्ते । अन्यत्र धेया । मीयते येन तन्मानम् । तत्र माङ आदिपत्वं च । मीयते तेनेति पायं मानम् । मेयमन्यत् । संपूर्वान्नयतेहविषि समो दीर्घत्वं च । सानाय्यं हविः । अयमषि रूढिशब्दत्वादविविशेषेऽवतिष्ठते । संनेयमन्यत् । निपूर्वाचिनोलेनिवासे आदिकत्वं च । निकाय्यो निवासः । निचेयमन्यत् ॥ २४ ॥ 'परिचाय्योपचाय्यानाय्यसमूह्यचित्यमग्नौ ॥५॥१॥२५॥ एतेऽनौ निपात्यन्ते । पर्युपपूर्वाचिनोतेपण आयादेशश्च । परिचीयत इति परिचाव्योऽग्निः । एवमुपचाय्यः। परिचयः, उपचेयोन्यः । आपूर्वान्नयतेय॑ण आयादेशश्च । गार्हपत्यादानीयते इत्यानाथ्यो दक्षिणानिः । स ह्याहवनीयेन सह "एकयोनिरेवोच्यते । आनेयोऽन्यः। केचिदग्निविशेषादन्यत्राप्यनित्यविशेष इच्छन्ति । आनाय्यो गोबुक् । अनित्य इत्यर्थः। संपूर्वादहेयण ऊत्वं च वशब्दस्य । समुह्यत इति समूह्यः । अन्यः संचायः । अन्ये तु संपूर्वादुहेरग्नावेवेति नियमार्थ ध्यणं निपातयन्ति । अग्नेरन्यत्र समूहितव्य इत्येव । वहेस्तु तन्मतेऽनावपि संवाह्य इति भवति । चिनोतेः क्यप् । चित्योग्नि । चेयोऽन्यः ॥ २५॥ याज्या दानर्चि ॥५॥ १ ॥ २६ ॥ यजेः करणे ध्यण् निपात्यते दानय॑भिधेयायाम् । इज्यतेऽनयेति याज्या । 'त्यज्यप्रवचः' (४-४-११८) इति गत्वाभावः ॥ २६ ॥ तव्यानीयौ ॥ ५॥ १ ॥ २७ ॥ धातोः परौ तव्य अनीय इसेतो प्रत्ययो भवतः । शयितव्यम् । शयनीयम् । वस्तव्यम् । वसनीयम् । कर्तव्यम् । करणीयम् भवता । कर्तव्यः करणीयः कटः ॥२७॥ य एचात ॥५।१।२।२८॥ ऋवर्णव्यञ्जनान्तात् ध्यणो विहितत्वात्परिशिष्टास्वरान्ताद्धातोर्यः प्रत्ययो भवति अन्त्याकारस्य चैकारो भवति । दित्स्यम् । धित्स्यम् । चेयम् । जेयम् । नेयम् । शेयम् । नव्यम् । लव्यम् । भव्यम् । एचातः । देयम् । धेयम् ॥ २८ ॥ शकितकिचतियतिशसिसहियजिभजिपवर्गात् ।।५।१॥ २१ ॥ शक्यादिभ्यः पवर्गान्तेभ्यश्च धानुभ्यो यः प्रत्ययो भवति । ध्यणोऽपवादः। शक्यम् । तक्यम् । चत्यम् । यत्यम् । शस्पम् । सह्यम् । यज्यम् । भज्यम् । पवर्ग, तप्यम् । लभ्यम् । गम्यम् । यजे 'त्यज्यज्मवचः' (४-१-११८) इति प्रतिषेधात् भजेश्च बाहुलकाद् व्यणपि । याज्यम् । भाग्यम् । यजिभजिभ्या नेच्छन्त्येके । कथमसिना व योऽसिवव्य, मुशलवव्यः । 'न जनवधः' (४-३-५४) इति द्धिमतिपेधे घ्यणा भविष्यति ॥ २९ ॥ “यममदगदोऽनुपसर्गात् ॥५।१।३० ।। उपसर्गरहितभ्य एभ्यो यः प्रत्ययो भवति । यम्यम् । मद्यम् । गद्यम् । अनुपसर्गादिति किम् । आयाम्यम् । प्रमाद्यम् । निगायम् । पवर्गान्तत्वात् सिद्धे यमो नियमार्थ वचनम् 'अनुपसर्गादेव यथा स्यात् । बहुलवचनान्मायत्यनेनेति मद्यम् करणेऽपि नियम्यमिति च सोपसर्गादिति ॥ ३० ॥ चरेराङस्त्वगुरौ ॥ ५॥ १ ॥ ३१ ॥ अनुपसर्गाचरेराङ्पूर्वावगुरावयें यो भवति । चर्य
॥-परिचाय्यो-1-एकयोनिरेवेति । आहवनीयोऽग्निदक्षिणाग्निश्च निवाणो गार्हपत्यादेवानीयते । अतो द्वावधेकयोनी गार्हपत्याग्निावरणिनिमन्यनादेवोपाय इति न स आनाय्य ॥-शकितकिST-त्यजयजप्रवच इति प्रतिषेधादिति । अन्यथा ध्यणप्रत्ययाऽभावात्प्राप्तिरेव नास्तीति ॥-यममद-||-अनुपसगादेवेति । अनुपसर्गायम एवेति विपरीतनियमस्तु न 'शकितकि'-इत्यत्र पवर्गग्रहणात्