SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ अ०च० ग्धादेशे सिद्ध यपत्रहणमन्तरङ्गानापि विधीन् यवादेशो बाधते हाते ज्ञापनार्थम् । तेन प्रशम्य प्रपृच्छ्य प्रदीव्य प्रखन्य मस्थाय पपाय प्रदाय प्रधाय अपठ्येत्यादौ दीचत्वं शत्वमूत्वमात्वमित्वमीत्वं हित्वमिट्त्वं यपा बाध्यते ॥ १६ ॥ *घस्लु सनद्यतनीघत्रचलि ॥४॥ ४॥ १७ ॥ एषु प्रत्ययेष्वदेघस्लु इत्ययमादेशो भवति । सन् , जिघत्सति । अद्यतनी, अघसत् । घन, घासः । अच, प्राचीति भघसः। अल् , प्रादनं प्रघसः । घस्लू अदने इत्पनेनैव सिद्धेऽदेः सन्नादिषु रूपान्तरनिवृत्त्यर्थ वचनम् । लुदर्थः ॥ १७ ॥ परोक्षायां नवा ॥ ४ । ४ । १८ ॥ परोक्षायां परतोऽदेर्घस्लादेशो वा भवति । जघास । जक्षतुः । जक्षुः । आद । आदतुः। आदुः । घस्यदिभ्यामेव सिद्ध विकल्पवचनं घसेरसर्वविषयत्वज्ञापनार्थम् । तेन घस्ता घस्मर इत्यादावेव घसेः प्रयोगो भवति ॥ १८ ॥ वेवय् ॥ ४ । ४ । १९ ॥ वेगो धातोः परोक्षायां वयित्ययमादेशो वा भवति । उवाय । जयतुः । ऊयुः । *ववौ । ववतुः *बबुः ॥ १९ ॥ *ऋः शूदपः ॥ ४॥ ४॥ २०॥ शुद्धप इत्यतेषां धातूनां परोक्षायां परत ऋकारोऽन्तादेशो वा भवति । विशशार । विशश्रतुः । विदद्रतुः । निपातुः । कसौ, विशशृवान् । विदवान् । निपपृवान् । पक्षे विशशार । विशशरतुः । विददरतुः । निपपरतुः । विशिशीर्वान् । विदिदीर्वान् । निपुपूर्वान् ॥ २० ॥ *हनो वध आशिष्यनौ ॥ ४ । ४ । २१ ॥ परोक्षानिवृत्ती वेति निवृत्तम् । *आशीविषये हन्तेर्वध इत्यकारान्तादेशो भवति ' अऔ ' जिविपये तु न भवति । वध्यात् । वध्यास्ताम् । वध्यासुः । आवधिपीष्ट । आवधिषीयास्ताम् । आवधिषीरन् । स्थानिवद्भावेनानुस्वारेत्त्वेऽपि अनेकस्वरत्वादिद्मतिषेधो न भवति । अत्राविति किम् । घानिपीप्ट ॥ २१ ॥ *अद्यतन्यां वा त्वात्मने ॥ ४ । ४ । २२ ।। अद्यतन्यां विषये हनो वध इत्ययमादेशो भवति आत्मनेपदे त्वस्या वा भवति । *अवधीत् । अवधिष्टाम् । अवधिषुः । अलोपस्य स्थानिवद्भावेन 'व्यञ्जनादेवोपान्त्यस्यातः।(४-३-४७) इति वृद्धिन भवति । 'वात्वात्मने ' आवाधेष्ट । आवधिपाताम् । आवधिपत । अवधि । आहत । आहसाताम् । आहसत । अघानि । अद्यतन्यामिति किम् । आजघ्ने ॥२२॥ 'इणिकोगोः ॥४।४।२३।। अद्यतन्यां विषये इण इकश्च धातोगा इत्ययमादेशो भवति । अगात् । अगाताम् । अगुः । अगायि भवता । अध्यगात् । अध्यगाताम् । अध्यगुः। अध्यगायि भवता ॥ २३ ॥ *णावज्ञाने गमुः ॥-घस्ल स--प्रघस इति । अजन्तस्य अदे प्रपूर्वस्यैव घसादेश बदन्ति वृद्धास्तेन माघमध्ये अदद इति प्रयोग सिद्ध । अदन्तीत्यदा । अच् । अदान् भक्षकान् पति 'भातो द'-इति १४ डे अददो विष्णु ॥-वेवय-1-ऊयुरिति । 'न वयो व्' इत्यनेन यस्य न वृत् ॥-ववाविति । 'वेरय ' इति न ॥-वधुरिति । 'अविति वा ' इति न वृविकल्पात् । ॥-ऋःश--विशशारेति । सकारे कृतेऽपि णवीदृशमेव रूप भवतीति निर्णयार्थ णवि दर्शितम् ॥-हनो व--आशीविषये इति । अब विषयविज्ञानात्पूर्वमेवादेशे यभ्यादित्यादी 'अत ' इत्यकारलोप सिद्ध । अन्यथा तत्रापि विहितव्याख्यानात्स न स्यात् । आवधिपीष्टेत्यादी चेट् सिद्ध । अन्यथा 'एकस्वरादनुस्वारेत ' इत्यत्र विहितम्याख्यानात् तेन निषेध स्यात् । ॥-अद्यतन्यां--अवधीदिति । विषयविज्ञानात्प्रत्ययव्यवधानेऽपि भवति । यथाऽदागम । किच विषयव्याख्या विनाऽवधीदित्यत्र 'एकस्वरादनुस्वारेत ' इत्यनेन विदितव्याख्यानादिट्न स्यात् ॥-इणिको-॥ अन्न विषयग्याख्या विनाध्यादित्यादिपु सिचो लुपि स्यात् न त्वगायीत्यत्र जिचा व्यवधानात् ॥णावधाने-|| अत्र विषयविज्ञानेऽजीगमसिद्धमऽन्यथा णा परे
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy