________________
श्रीमन्ना प्रत्ययस्तस्मात्परस्य हेतुंम्भवति । दीव्य । पच । पठ । तुद । चोरय । अत इति किम् । राध्नुहि । प्रामुहि । प्रत्ययादिति किम् । पयि वयि गतौ पापहि । वावहि ३१॥४॥८५॥ *असंयोगादोः॥४।२।८६ ॥ असंयोगात्परो य उकारस्तदन्तात्मत्ययात्परस्य हेलुंग् भवति । सुनु । चिनु । कुरु । असंयोगादिति किम् । अणुहि । १
अणुहि । असंयोगादियो विशेषणादिहापि न भवति । आप्नुहि । राध्नुहि । ओरिति किम् । क्रोणीहि । प्रत्ययादित्येव । युहि । रुहि ॥ ८६ ॥ वम्यविति वा ॥४।२।८७ ॥ प्रत्ययादिति ओरिति च पञ्चम्यन्तमपि व्यधिकरणषष्ठ्यन्ततया विपरिणम्यते । असंयोगात्परो य उकारस्तस्य प्रत्यय-2 संवन्धिनो लुग् वा भवति वकारादौ मकारादौ चाविति प्रत्यये । सुन्वः । सुनुवः । सुन्मः । सुनमः । सुन्वहे । सुनुवहे । सुन्महे । सुनुमहे । तन्वः । तनुव । तन्म. । तनुमः । तन्वहे । तनुवहे । तन्महे । तनुमहे । वमीति फिम् । सुनुतः । तनुतः । अपितीति किम् । सुनोमि । तनोमि । ओरित्येव । क्रीणीवः । प्रीणीमः। प्रत्ययस्येत्येव । युवः । युमः । असंयोगादित्येव । तक्ष्णुवः । तक्ष्णुमः । अणुवः । अणुमः । असंयोगादित्याविशेषणादिहापि न भवति । आप्नुवः । आप्नुमः । ८७॥ कृगो यि च ॥ ४ । २।८८॥ कृगः परस्योकारस्य यकारादौ वमि चाविति प्रत्यये लुग्भवति । कुर्यात् । कुर्याताम् । कुथुः । कुर्वः । कुर्मः । कुर्वहै । कुर्महे । यि चेति किम् । कुरुतः । अवितीत्येव । करोमि । कुर्मीत्यपि कश्चित्तदसंगतम् । कृग्र हिंसायामित्यस्मात्तु नकारव्यवधानात् उः परो न संभवतीति न भवति । कृणुयात् । कृणुव । कृणुमः ॥ ८८ ॥ 'अतः शित्युत् ॥ ४।२।८९ ॥ शित्यविति मत्यये य उकारः तन्निमितो यः कृगोऽकारस्तस्योकारो भवति । कुरुतः । १६ कुर्वन्ति । कुरु । कुरुताम् । कुयोत् । अकुरुताम् । कुवेन् । कुर्वाणः । उविधानवलाद्गुणो न भवति । ओंकार एवान्यथा विधीयेत । उकारनिमित्तत्वेनाकारविज्ञानात् । कुर्यादित्यादावुकारलोपेऽपि भवति अडागमस्य च न भवति । अकुरुत । शितीत्युकारस्य विशेषणं किम् । कुरुत इत्यादी शिति 'व्यवहितेऽपि यथा स्यात् । अविती- १६ त्येव । करोति ॥ ८९ ॥ *श्वास्त्योलुक् ॥ ४।२।९० ॥ श्वस्य प्रत्ययस्यास्तेश्च धातोः संवन्धिनोऽकारस्य शित्यविति प्रत्यये लुग्भवति । रुन्ध' । रुन्धन्ति । रुन्ध्यात् । रुन्धन् । रुन्धान । स्तः । सन्ति । स्थ । स्थ । स्वः । स्मः । स्यात् । स्तात् । स्ताम् । सन् । अवितीत्येव । रुणद्धि । अस्ति । अत इत्येव । 'अन्त्यस्य मा भूत् । आस्ताम् । आसन् । तिन्निर्देशः किम् । अस्यतेर्माभूत् । अस्यतः ॥ ९० ॥ वा विषातोऽनः पुस् ।। ४।२।९१ ॥ द्विप आकारान्ताच धातोः परस्य शितोऽवितोऽनः स्थाने वा पुसादेशो भवति । अद्विषुः । अद्विपन् । अयुः । अयान् । अः । अरान् । अलुः । अलान् । अदधरित्यत्र परत्वानियमेव । पकारः जन न बद्दलुबन्तस्य ॥-असयो-॥-विशेषणादिति । यदि वा सयोगाय उकारान्त प्रत्यय इति विशेषण स्यात्तदाऽनापि भवेत् ॥-रागो यि च ॥ अव्यभिचारात् प्रत्यय इति नाधिचझे ॥-उः परो न सभवतीति । नचैतद्वाग्य येन नाव्यवधान यत कुर्यादित्यादावव्यवहितोऽस्ति ।-अत शि-|-तन्निमित्त इति । एवं सति कुरु इत्यादो विभकिलोपेऽपि भवति ।गुणो न भवतीति । उकारे निमित्ते ‘लघोरुपान्त्यस्य' इति प्राप्त ॥-व्यवहिनेऽपीति । अन्यथा कुर्यादित्यादादेव स्यात् । न च 'स्वरस्य'-इति स्थानित्ये व्यवधायकत्व वाच्यमस्या अनित्यत्वात् ॥-शास्त्यो-||-अन्त्यस्य माभूदिति । अत इत्यधिकाराभावे पष्टयान्यस्येति अस्ते सस्य लुम् स्वात् । अस्प तु प्रत्ययस्पेति परिभाषया सर्वस्यापि स्यात्
Serecene
mail