________________
श्रीहेमशरोभवति । प्रस्तीमावस्तीमवान् । प्रस्तीतः । प्रस्तीतवान् ॥९६॥ श्यः शीवमूर्तिस्पर्श नश्चास्पशें ॥४।१।९७॥ द्रवस्य मूर्तिः काठिन्य तस्मिन् स्पर्शे च वर्तमानस्य ६१ ० ० ॥८॥ श्यायतेः क्तयोः परतः शी इत्ययमादेशो भवति तत्संनियोगे च क्तयोस्तकारस्यास्पर्शे विषये नकारादेशो भवति । शीनं घृतम् । शीनवद् घृतम् । शीनं मेदः शीन- १
वन्मेदः । द्रवावस्थाया- काठिन्यं गतमित्यर्थः । स्पर्श, शीतं वर्तते । शीतो वायुः । गुणमात्रे तद्वति वार्थे स्पर्शविषयो भवति । द्रवमूर्तिस्पर्वा इति किम् । संश्यानो वृश्चिकः । शीतेन संकुचित इत्यर्थः । 'व्यञ्जनान्तस्थानोऽख्याध्यः । (४-२-७१ ) इति नत्वम् ॥ ९७ ॥ प्रतेः॥४।१।९८ ॥ प्रतिपरस्य श्यायतेः क्तयोः परतः शी इत्ययमादेशो भवति तत्संनियोगे च क्तयोस्तकारस्य नकारः। प्रतिशीनः। प्रतिशीनवान् । प्रतिप्वोऽयं रोगे वर्तत इति पूर्वेणामाप्तौ वचनम्॥९८॥ वाभ्य वाभ्याम् ॥ ४ १॥ ९९ ॥ अभि अव इत्येताभ्यां परस्य स्त्यायतेः क्तयोः परतः शी इसयमादेशो वा भवति तत्संनियोगे च क्तयोस्तस्यास्पर्शे नो भवति । आभिशीनः । अभिशीनवान् । अभिश्यानः । अभिश्यानवान् । अवशीनः । अवशीनवान् । अवश्यानः । अवश्यानवान् । द्रवमूर्तिस्पर्शयोरप्यनेन परत्वाद्विकल्पो भवति । अभिशीनं घृतम् । अभिश्यानं घृतम् । अवशीनं हिमम् । अवश्यानं हिमम् । अभिशीतो वायुः । अवशीतो वायुः । स्पर्शत्वान्न नत्वम् । अभिश्यानो वायुः । अवश्यानो वायुः । 'व्यञ्जनान्तस्थातोऽख्याध्यः' (४-२-७१ ) इति स्पर्शेऽपि नत्वम् । अभ्यवाभ्यामिति किम् । संश्यानः । संश्यानवान् । केचित्तु समा व्यवधानेऽपीच्छन्ति । अभिसंशीनः । अभिसंशीनवान् । अभिसंश्यानः । अभिसंश्यानवान् । अवसंशीनः । अवसंशीनवान् । अवसंश्यानः । अवसंश्यानवान् । तदाभ्यवाभ्यामिति तृतीया व्याख्येया। समस्ताभ्यामपीत्यन्ये । अभ्यवशीनः । अभ्यवश्यानः । विपर्यासे प्रयोगो नास्ति । वा शब्दस्य च व्यवस्थिततिभाषार्थादन्योपसर्गान्ताभ्यां न भवति । समभिश्यानः । समभिश्यानवान् । समवश्यानः । समवश्यानवान् ॥ ९९ ॥ श्रः शृतं हविक्षीरे ॥४।१।१०० ॥ श्रातः श्रायतेश्च क्तमत्यय हविपि क्षीरे चाभिधेये शृभावो निपात्यते । शृतं हविः । शृतं क्षीरम् स्वयमेव । श्रातिश्रायती हि अकर्मककर्मकर्वविपयस्य पचेरर्थे वनेते । तयोश्चैतन्निपातनम् । हविक्षीर इति किम् । श्राणा यवागूः ॥ १०० ॥ अपेः प्रयोक्खैक्ये ॥ ४ । १ । १०१ ॥ श्रायते श्रातेर्वा ण्यन्तस्यकस्मिन् प्रयोक्तार ते परतो हविपि क्षीरे चाभिधेये शुभावो निपात्यते । श्राति श्रायति वा हविः स्वयमेव तचैत्रेण पायुज्यत शृतं हविश्चैत्रेण । शृतं क्षीरं चैत्रेण । यदा तु द्वितीये प्रयोक्तरि णिगुत्पद्यते तदा न भवति । "अपितं हविश्चैत्रेण मैत्रेणेति । हविक्षीर इत्येव । श्रपिता यवागूः । अन्ये तु
॥-श्यः शी-॥ द्रवमूर्तिश्च स्पर्शश्रोति कृते विरोधिनामिति व्यावृत्ते सूत्रात्यात्समाहार कर्मधारयो वा ॥-शीत वर्त्तते इति।कर्तरि क । अत्र शीतस्पशों मुख्यभावेन । शीतो वायुरित्यत्र तु गौणभावेन वर्त्तते ॥-चाभ्य-|| अस्पर्श नो भवतीति पूर्वसूत्रे अस्पर्श इति नोक्त रोगेऽसभवात् ॥–श्रः शृत-॥ ननु कथ शतं क्षीर स्वयमेवेत्युक्तम् शृत क्षीर देवदत्तेनेति कय न भवतीत्याशझ्याह-श्रातिश्रा-123 यती इति ॥-श्रपेः प्रयो-॥ शृत हविचैत्रेणेति णिगि पान्ते घटादेईस्ये श्रप्यते स्मेति वाक्ये कर्मणि के निपातनादिङऽभाव ॥-श्रपित हविरित्यादि । पूर्ववत्प्रथमो णिग् । ततस्त चैत्र श्रपयन्त मैत्र
॥
८
॥