SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ रुपादानम् । अन्ये खविधानसामर्थ्यात् ग्लुञ्चेनलोपं नेच्छन्ति । तेनाग्लुञ्चत् । जशप्वा । अजरत् । अजारीत् । परस्मैपद इत्येव । अरुद्ध । अभित्त ॥६५॥ | *जिच ते पदस्तलकच ॥३। ४ । ६६ ॥ पदिंच गतावित्यस्माद्धातोः कर्तर्यद्यतन्यास्ते परे निच् प्रत्ययो भवति निमित्तभूतस्य तकारस्य लुक् च । उदपादि भिक्षा । समपादि विद्या । त इति किम् । उदपत्माताम् । पदेरात्मनेपदिखात इति आत्मनेपदप्रथमत्रिकैकवचनं तकारो गृह्यते *न परस्मैपदमध्यमत्रि| कबहुवचनम् । एवमुत्तरत्र । अकारो 'ञ्णिति' (४-३-५०) इति विशेपणार्थः। चकारो'न कर्मणा बिन्' (३-४-८८) इसन विशेषणार्थः ॥ ६६ ॥ *दीपजनबुधिपूरितायप्यायो वा ॥३।४।६७॥ एभ्यः कर्तर्यवतन्यारते परे बिच् प्रत्ययो वा भवति निमित्तभूतनलुक् च । अदीपि । अदीपिष्ट । * अजनि। अजनिष्ट । अबोधि । अबुद्ध । अपरि । अपूरिष्ट । अतायि । अतायिष्ट । अप्यायि । अप्यायिष्ट । त इसेव । अदीपिपाताम् । कर्तरीत्येव । अदीपि भवता । उत्तरेण नित्यमेव । बुधीति इकारो देवादिकस्यात्मनेपदिनः परिग्रहार्थः । तेन वुभृग् अबोधिष्टेत्यन न भवति ॥ ६७ ॥ भावकर्मणोः ॥ ३ । ४ । ६८ ॥ सर्वस्माद्धातोः भावकर्मविहितेऽद्यतन्यास्ते बिच् प्रत्ययो भवति तलुक् च । आसि भवता । अशायि भवता । अकारि कटः । अपाच्योदनथैत्रेण ॥६८॥ *स्वरग्रहदशहत्भ्यः स्यसिजाशीःश्वस्तन्यां जिदावा॥ ३।४।६९॥ स्वरान्ताद्धातोः ग्रहादिभ्यश्च विहितासु भावकर्मविषयासु स्यमिजाशीश्वस्तनी बिट् प्रत्ययो वा भवति । स्वर, दायिष्यते । दास्पते । अदायिष्यत । अदास्यत । अदाथिपाताम् । अदिपाताम् । दायिपीष्ट। दासीष्ट। दायिता। दाता। शमिष्यते। शामिष्यते । शमयिष्यते । अशमिष्यत । अशामिष्यत । अशमयिष्यत । अशमिषाताम् । अशामिषाताम् । अशमयिपाताम् । शमिपीष्ट । शामिपीष्ट । शमयिपीष्ट । शमिता । शामिता। शमयिता। एवं चायिष्यते। चेष्यते । शायिष्यते । शयिष्यते । स्ताविष्यते। स्तोष्यते। लाविष्यते । लविष्यते। कारिष्यते । करिष्यते । तारिष्यते। तरिष्यते तरीप्यते । ग्रह, ग्राहिष्यते । ग्रहीष्यते । अग्राहिपाताम् । अग्रहीपाताम् । ग्राहिपीष्ट । ग्रहीपष्ट । ग्राहिता । ग्रहीता। दृश् , दर्शिष्यते । द्रक्ष्यते । अदर्शिपाताम् । अदृक्षाताम् । दर्शिषीष्ट । दृक्षीष्ट । दर्शिता । द्रष्टा । इन्, घानिष्यते । हनिष्यते । अघानिपाताम् । *अवधिषाताम् । *अहसाताम् । घानिष्टि । वधिषीष्ट । घानिता । हन्ता । एभ्य इति किम् । पठिष्यते । स्यादिष्विति किम् । चीयते । भावकर्मणोरित्येव । दास्यति । चेष्यति । प्रकृतिप्रत्यययोर्वचनवैषम्यान्न यथासं. ख्यम् ॥ ६९ ॥ *क्यः शिति ॥३॥ ४॥ ७० ॥ सर्वस्माद्धातो वकर्मविहिते शिति क्या प्रत्ययो भवति । शय्यते भवता। शय्येत भवता । शय्यतां भवता। अशय्यत भवता । भिद्यते कमलेन । कर्मणि, क्रियते कटः । क्रियेत कटः । क्रियतां कटः। अक्रियत कटः । अक्रियेतां कटौ । अक्रियन्त कटाः । क्रिया । शितीति विधेयम् । नैवम् । द्युतादय पुण्यादयश्च पहव आदित उदितश्च ततस्तेषाम् लूदितामुञ्चारयितुमऽक्यत्वादऽदोष ॥-जिच् ते पद-॥-न परस्मैपदमध्यमत्रिकबहुवचनमिति । ननु प्रकृतिग्रहणे यड्लुबन्तस्थापीति यहलुक्क इति परस्मैपदित्वे च परस्मैपदस्यापि सभव । न । श्रुतानुमितयो श्रौतसवन्धो बलीयान् , यड्लोपोऽपि च न दृश्यते । अत एव सिद्धमऽन्ववादि ॥-दीपजन-11-अजनीति । 'न जनवध' इति वृवपऽभाव || स्वरग्रह-॥-अवधिपातामिति । 'अद्यतन्या पा' इति वधस्तत इटि 'अत' इत्यलोप ॥-अहसातामिति । 'हन सिच्' इति कित्त्वे 'यमिरमि' इति नलोप ॥-क्यः शिति
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy