SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ चेति किम् । आयच्छति रज्जुम् । आहन्ति वृपलम् । स्व इति किम् । आयच्छति पादौ चैत्रस्य । आइन्ति शिरो मैत्रस्य । अन इति किम् । स्वामायच्छति R रज्जम् । खं पुत्रमाहन्ति । स्वाङ्ग इति समस्तनिर्देशे *पारिभाषिकस्वाङ्गप्रतिपत्तिः स्यादित्यसमस्ताभिधानम् ॥ ८६ ॥ *व्यदस्तपः॥३ ७॥ व्ययां परात्तपेः कर्मण्यसति स्वेतेच कर्मणि कर्तर्यात्मनेपदं भवति । वितपते उत्तपते रविः । दीप्यत इत्यर्थः । स्वेऽङ्गे, वितपते उत्तपते पाणिम् । तापयतीत्यर्धः । व्यद इति किम । निट्रपति । स्वऽङ्गे चेत्येव । वितपति पृथिवीं सविता । संतापयतीत्यर्थः । उत्तपति सुवर्ण सुवर्णकारः । द्रवीकरोतीत्यर्थः । स्व इत्येव । उत्तपति पृष्ठं चैत्रस्य । अङ्ग इत्येव । स्वं सुवर्णमुत्तपति । इह दीप्यते ज्वलति भासते रोचते इत्येष्वर्थपु तपिमकर्मकं स्मरन्ति । यथा वहति भारमिति प्रापणे वहिं सकर्मक * स्पन्दने त्वकर्मकम् । वदति नदी स्पन्दते इत्यर्थः ॥ ८७ ॥ *अणिकर्मणिकर्तृकाण्णिगोऽस्मृतौ ॥ ३ । ३ । ८८ ॥ 'प्रयोक्तृव्यापार णिग्' (३ । ४।२०) इति वक्ष्यते । अणिगवस्थायां यत्कर्म तदेव णिगवस्थायां कर्ता यम्य मोऽणिक्कर्मणिकर्तृकः । तस्माण्णिगन्ताद्धातोरस्मृतौ वर्तमानाकर्तर्यात्मनेपदं भवति । आरोहन्ति इस्तिनं हस्तिपकाः । *आरोहयते हस्ती हस्तिपकान् । *आस्कन्दयते इत्यर्थः । पश्यन्ति राजानं भृयाः । दर्शयते राजा भृत्यान् भृत्यैरिति वा। पिबन्ति मधु पायकाः । *पाययते मधु पायकान् । अणिगिति किम् । आरोहन्ति हस्तिनं हस्तिपकाः । आरोहयति इस्तिपकान् महामात्रः। *आरोहयन्ति महामात्रेण हस्तिपकाः। प्रथमणिगन्तकर्मणि द्वितीयणिगन्तकर्तर्यपि माभूत् । गित्करणं किम् । गणयति गणं गोपालकः। गणयते गण गोपालकम् इति णिजन्त* कर्मणिकर्तृकादपि णिगन्तात्मतिषेधो माभूत् । कर्मेति किम् । करणादेः कर्तृत्वे माभूत् । पश्यन्ति भृत्याः प्रदीपेन । दर्शयति प्रदीपो भृत्यान् । णिगिति किम् । * यस्याणिगन्तस्यैव कर्म कर्ता भवति ततो णिगन्तान्माभूत् । लुनाति केदारं चैत्रः । *लूयते केदारः स्वयमेव । तं प्रयुङ्क्ते लावयति केदारं चैत्रः । कर्तग्रहणं किम् । आरोहन्ति हस्तिनं इस्तिपकाः । तानेनमारोहयति महामात्रः । *णिग इति किम् । *आरोहन्ति हस्तिनं हस्तिपकाः तानारोहयते इस्तीत्यणिगवस्थायां -पारिभाषिकस्वागंति । ततश्चायच्छति पादौ चैत्रस्येत्यादावप्यात्मनेपदप्रसङ्ग ॥-व्युदस्तप । दीप्यते सामान्येन दीप्तो भवति । अलति ज्वालावान् भवति । भासते उद्भूतल्पो भवति । रोचते किरणवान् भवति ॥--अणिकर्म--||--आरोहयते हस्तीति । अत्राऽनुकूलाचरण पादार्पणशिरोऽधूननादि ॥-आस्कन्दयत इति । | हस्तिन उपर्यागच्छन्ति तानुपर्यागमयतीत्यर्थ । अत्राप्यतेनात्मनेपदम् ॥-पाययते मधु पायकानिति । “चल्याहारार्थ-दति परस्मैपदे प्राप्ते 'परिमुह '-इत्यनेन फलवत्यात्मनेपदमित्यत्र वफलवत्यप्यनेन ।-आरोहयन्ति महामात्रेण हस्तिपका इति । आरोयति हस्तिपकान् महामात्रस्तमारोहयन्त हस्तिपका प्रयुगाते इति वाक्यम् । हस्तिपकानारोहयन्त महामात्र हस्त्येव प्रयुद्धे इति तु वाक्ये द्वितीयणिगि अणिकर्मणो दृस्तिन कतत्वेऽपि नात्मनेपदम् । प्रत्यासत्तेायात् यदि अनन्तरे णिगि कर्मण कर्तत्वमत्र तु द्वितीये गिगि ॥-लूयते केदार इति । ननु लयते केदार इत्यादाविध आरोहयते हस्ती हस्तिपकान् इत्यादावपि यदेव पूर्व कर्म तदेव कत्तति 'एकघाती'-इत्यनेन कर्मकर्तवैवात्मनेपद भविष्यति किमनेन । सत्यम् । अकर्मकक्रियत्वाऽभाषान । अत्र कर्माण प्रयोजकव्यापारात् कर्तत्वम् । एकधातावित्यत्र तु सीकर्यादित्यऽनयोभेद ॥-णिग इति किमिति । तदा णिगि णिग्विषये कर्ता यस्येति व्याख्येयम् ॥-आरोहन्ति इस्तिमिति । अत्रारोहयते K*******************************XEXT
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy