SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ अत्राप्यकाथ्याभावे पूर्वेण नित्यं सप्तमी। अन्तेनेति किम्। “अय नश्चतुर्पु गव्युतेषु भोजनम्। भोजनं हि भोक्तधर्मो नावनोऽन्त इति पूर्ववत्सप्तम्येव॥ नन्वन्तेन सहाध्वनोऽभेदोपचारात सिद्धमेवैकार्थ्यं किमनेन । सत्यम् । कालेऽप्येवं मा भूदिति वचनम् ॥ १०७ ॥ षष्ठी वानादरे ॥२।२।१०८॥ यद्भावो भावलक्षणं तस्मिन् भाववति वर्तमानागौणानाम्नोऽनादरे गम्यमाने षष्ठी वा भवति । पक्षे पूर्वेण सप्तमी । रुदतो लोकस्य पात्राजीत् । रुदति लोके पात्राजीत् । कोशतो बन्धुवर्गस्य प्राब्राजीत् । कोशति वन्धुवर्गे पाबाजीत् । रुदन्तं क्रोशन्तं वाऽनादृत्य मात्राजीदियर्थः ॥१०८ ॥ *सप्तमी चाविभागे निर्धारणे॥२।२।१०९॥ जातिगुणक्रियादिभिः समदायादेकदेशस्य बुद्ध्या पृथक्करणं निर्धारणम्। तस्मिन् गम्यमाने गौणान्नाम्नः षष्ठी सप्तमी च भवति 'अविभागे' निर्धार्यमाणस्यैकदेशस्य समदायेन सह कथंचिदैक्ये शब्दागम्यमाने । 'क्षत्रियः पुरुषाणां पुरुषेषु वा शूरतमः । शालयः थूकधान्यानां थूकधान्येषु वा पथ्यतमाः । कृष्णा गवां गोषु वा संपन्नक्षीरतमा । धावन्तो गच्छतां गच्छत्सु वा शीघ्रतमाः। युधिष्ठिरः श्रेष्ठतमः कुरूणां कुरुषु वा । अविभाग इति किम् । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः। पञ्चालाः कुरुभ्यः संपन्नतराः। मैत्रश्चैत्रात्पटुः । अयमस्मादधिकः । अत्र हि शब्दात् भेद एव प्रतीयते न तु कथंचिदैक्यमिति न भवति । 'पञ्चमीवाधनार्थ वचनम् । अन्ये तु पञ्चमी सामानाधिकरण्य न घटेत । गवामी: श्रीः तां दधाति 'पृकाऋषि '-इति किदु. । सोऽनाऽस्ति मतुः । अव्युत्पन्नो वा गवीधुमच्छब्द, ॥ अद्य नश्चतुर्यु गन्यूतेप्विति । गब्यूतिरत्रास्ति विषयतयाऽवयवितया वा 'अभ्रादिभ्यः' अः ॥ गन्यूत क्रोश एकः ॥-नन्वन्तेनेति । चतुर्पु योजनेषु यत्साकाश्यं तचत्वारि योजनानि ॥-पष्ठी वा-॥-पक्षे पूर्वेण सप्तमीति । वाशब्दमन्तरेणानादरे षष्ठयाऽपवादतया सप्तमी बाध्येत । ननु 'बद्भाव ' इति भावलक्षणे सामान्ये सप्तमी तत्रानादर इति विशेषे पष्ठी सप्तम्यामनादरप्रतीतिरर्थप्रकरणादेरित्यर्थभेदान्न वाध्यबाधकभावोsस्तीति कि पक्षे सप्तम्यर्थेन वाशब्देनेति । उच्यते । यथाऽनादरादन्यत्र साम्यतः सप्तम्यस्ति । एवं 'शेपे' इत्यनेन पष्ठयपि तत्रोभयत्रापि प्रवजन् रुदतापि लोकेन निवर्त्यमानस्तद्रोदनमनादृत्य प्राबाजीदित्यनादर. प्रकरणादेः प्रतीयत इति सामान्येऽर्थे पष्ठी सप्तमी बाधेतेति पक्षे तदर्थ वावचनम् ॥-सप्तमी-॥ क्षताप्रायते 'स्थापा'-इति क. पृपोदरादित्वादलोपे क्षत्र तस्यापत्य 'क्षत्रादिय.'-क्षत्रियः पुरुषाणामित्यादिषु क्षत्रियत्वशालिवजात्या कृष्णत्वगुणेन धावनक्रियया आदिशब्दात् युधिष्ठिरप्रभृतिसंज्ञया च निर्धारणम् । ननु निर्धार्यमाणस्यावयवस्य समुदायाभ्यन्तरत्वात् ततश्च समुदायस्याऽधिकरणविवक्षायां वृक्षे शाखेतिवत् सप्तम्याः सिद्धत्वात् संबन्धविवक्षायां वऽवयवस्य वृक्षस्य शाखेतिवत् षष्ठया अपि सिद्धत्वात्किमनेनेति । नैवम् । विभागे प्रतिपेधार्थत्वादस्य सर्वत्रैव निरिणस्य विभागरूपत्वेनाऽविभागपूर्वकत्वात् अविभागग्रहणस्य निरर्थकत्वादविभागग्रहणसामर्थ्यावधारणमायिते । अविभागो यन्त्र शब्दत एव प्रतीयते तत्र निर्धारणे सप्तमीषष्ट्याविति । यथा क्षप्रियः पुरुषाणां पुरुषेष्वित्यत्र निर्ममाणस्य क्षत्रियस्य पुरुषत्वेनाऽविभागप्रतीतिः । तेन माथुरा. पाटलिपुत्रकेभ्य आक्ष्यतरा इत्यत्र न भवति । न सत्र केन चित्प्रकारेण माथुराणां पाटलिपुत्रकेप्वविभाग शब्दतः प्रतीयते । न हि पाटलिपुत्रका माधुरा नाप्याव्यतरा इति वाक्याझेद एव प्रतीयते इत्याह-शब्दागम्यमाने इति । गवां कृष्णेत्यादी विभज्यमाना गार्गोत्वेन समुदायादविभक्ता काप्पयन तु विभक्ता तस्माद्विभज्यमानस्यैकदेशस्य विभागाश्रमस्य च समुदायस्य पत्र विभागाविभागौ स एवानयोर्विपयः । यत्र तु तयोविभाग एव न कथंचिदैक्यं तत्र पञ्चम्येव भवति । अत एवाह-पञ्चमीबाधनार्थमिति । अयमर्थः निरिणस्य विभागरूपत्वात् यस्य हि यतो विभागस्तस्य तदपेक्षमाऽवधिरूपत्वात् अपादानत्वात् 'पञ्चम्यपादाने' इति पञ्चम्यां प्राप्तायां यत्रावि
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy