________________
वशोऽध्यायः ]
पद्मपुराणम् ।
३१
| दीप प्रज्वाल्य घृतेन स्नापयेच्छिवम् । सघृतं श्रीफलं दत्त्वा कृत्वा चान्ते प्रदक्षिणम् ॥ ६ भरणसंयुक्तां कपिलां यः प्रयच्छति । शिवतुल्यो नरो भूत्वा न चेह जायते पुनः ॥ ७ सरकदिने प्राप्ते चतुर्थ्यां तु विशेषतः । स्त्रापयित्वा शिवं भक्त्या ब्राह्मणेभ्यस्तु भोजनम् ॥ ८ रिकनवम्यां तु अमावास्यां तथैव च । स्नापयेत्तत्र यत्नेन रूपवान्सुभगो भवेत् ॥
११
१२
१३
१४
१५
१६
स्नापयेल्लिङ्गं पूजयेद्भक्तितो द्विजान् । पुष्पकेण विमानेन सहस्रैः परिवारितः ।। पदमत्रामोति नात्र वाऽभिगतं भवेत् । अक्षयं मोदते कालं यथा रुद्रस्तथैव च ।। तु कर्मसंयोगान्मर्त्यलोकमुपागतः । राजा भवति धर्मिष्ठो रूपवाञ्जायते बली । 'गच्छेत राजेन्द्र ऋषितीर्थमनुत्तमम् । घृणविन्दुऋषिर्नाम शापदग्धो व्यवस्थितः ।। तीर्थप्रभावेण पापमुक्तो भवेद्विजः । ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम् ॥ श्रावणे मामि संप्राप्ते कृष्णपक्षे चतुर्दशीम् । स्नातमात्री नरस्तत्र रुद्रलोके महीयते ॥ पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात् । गणेश्वरसमीपे तु गङ्गावदनमुत्तमम् || अकामो वा सकामो वा तत्र स्नात्वा तु मानवः । आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ॥ १७ सदा पर्व दिवसे स्नानं तत्र समाचरेत् । पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात् ॥ प्रयागे यत्फलं दृष्टं शंकरेण महात्मना । तदेव निखिलं पुण्यं गङ्गाराहर्कसंगमे ।। संस्यैव पश्चिम स्थानं समीपे नातिदूरतः । दशाश्वमेधिकं नाम त्रिषु लोकेषु विश्रुतम् ॥ उपोप्य रजनीमेकां मासि भाद्रपदे तथा । अमावास्यां नरः स्नात्वा व्रजते यत्र शंकरः ।। २१ सदा पूर्व स्नानं तत्र समाचरेत् । पितॄणां तर्पणं कृत्वा अश्वमेधफलं लभेत् ॥ दशाश्वमेधात्पश्चिमतो भृगुर्ब्राह्मणसत्तमः । दिव्यं वर्षसहस्रं तु ईश्वरं पर्युपासते ।। बल्मीकावस्थितश्वासौ दक्षिणं च निकेतनम् । आश्चर्य तु महज्जातमुमायाः शंकरस्य च ॥ गौरी तु पृच्छते देवं कोऽयमेव तु संस्थितः । देवो वा दानवश्वाथ कथयस्व महेश्वर ॥ ईश्वर उवाच -
१८
१९
२०
२२
भृगुर्नाम द्विजश्रेष्ठ ऋषीणां प्रवरो मुनिः । ध्यायते मां समाधिस्थो वरं प्रार्थयते प्रिये ।। तत्र प्रहसिता देवी ईश्वरं प्रत्यभाषत ॥
२६
धूमवत्तु शिखा जाता ततोऽद्यापि न तुष्यसि । दुराराध्योऽसि तेन त्वं नात्र कार्या विचारणा ।। २७
ܕ
२३
२४
२५
देव उवाच -
२९ ३०
३१
न ज्ञायसे महादेवि अयं क्रोधेन चेष्टितः । दर्शयामि यथा तथ्यं प्रियं ते च करोम्यहम् || २८ स्मारितो देवदेवेन धर्मरूपो वृपस्तदा । स्मरणाद्देवदेवस्य वृषः शीघ्रमुपस्थितः ।। बदते मानुषीं वाचमादेशो दीयतां प्रभो । वल्मीकैश्छादितो विम एनं भूमौ निपातय ॥ योगस्थस्तु ततो ध्यायंस्ततस्तेन निपातितः । तत्क्षणात्क्रोधसंतप्तो हस्तमुत्क्षिप्तवान्वृषम् ॥ एवं संभाषमाणस्तु कुत्र गच्छसि भो वृष । अद्य त्वामथ पाप्मानं प्रत्यक्षं हन्म्यहं वृष ॥ तिस्तु तदा विप्रो अन्तरिक्षगतं वृषम् । आकाशे प्रेक्षते विम एतदद्भुतमुत्तमम् । ततः प्रहसिते रुद्र ऋषिरग्रे व्यवस्थितः । तृतीयं लोचनं दृष्ट्वा वैलक्ष्यात्पतितो भुवि ।। प्रणम्य दण्डवमाँ स्तुवते परमेश्वरं ।।
३२
३३
१ स्व. अ. च । दाप । २ ट म् । तृण । ३ क. धार्मिकस्तु ।
३४