________________
३२४ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेप्रवृत्तौ च निवृत्तौ च मुनिशास्त्रोक्तमेव च । आचरन्ति महात्मानस्ते नराः स्वर्गगामिनः ॥ ३५ ये नराणां वचो वक्तुं न जानन्ति च विप्रियम् । प्रियवाक्येन विज्ञातास्ते नराः स्वर्गगामिनः।। ३६ [*ये नाम भागं कुर्वन्ति कुतृप्णाश्रमकर्षिणः(?)। हन्तकारस्य दातारस्ते नराः स्वर्गगामिनः॥३७ वापीकपतडागानों प्रपानां चैव वेश्मनाम् । आरामाणां च कर्तारस्ते नराः स्वर्गगामिनः ॥ ३८ असत्येष्वपि सत्या ये ऋजवोऽनार्जवेष्वपि । प्रवक्तारश्च दातारस्ते नराः स्वर्गगामिनः ॥ ३९ यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः। सानुक्रोशाः सदाचारास्ते नराः स्वर्गगामिनः ॥४० अवन्ध्यं दिवसं कुयुधमेणेकेन सर्वदा । व्रतं गृह्णन्ति ये नित्यं ते नराः स्वर्गगामिनः ॥ ४१ मित्रामित्रे स्तुवन्तश्च तुल्यं पश्यन्ति ये सदा । शान्तात्मानो जितान्मानस्ते नराः स्वर्गगामिनः॥ ४२ ये च स्युर्भयसंत्रस्ता ब्राह्मणांश्च तथा स्त्रियः। सार्थान्वा परिरक्षन्ति ते नराः स्वर्गगामिनः॥ ४३ गङ्गायां पुष्करे तीर्थे गयायां च विशेषतः । पितृपिण्डप्रदातारस्ते नराः स्वर्गगामिनः ॥ ४४ न वशाश्चेन्द्रियाणां ये तथा संयमने रताः । त्यक्तभोगभयकोधास्ते नराः स्वर्गगामिनः ॥ ४५ [+यकामत्कुणदंशादीन्ये जन्तुंस्तुदतस्तनुम् । पुत्रवत्परिरक्षन्ति ते नराः स्वर्गगामिनः॥ ४६ मनसश्चेन्द्रियाणां च सर्वदा निग्रहे रताः । परोपकारनिरतास्ते नराः स्वर्गगामिनः ॥ ४७ यज्ञानां च विशेषेण विधिना संवपन्ति ये । सर्वद्वंद्वसहा दान्तास्ते नराः स्वर्गगामिनः ॥ ४८ ये पूताः परदारांश्च कर्मणा मनसा गिरा । रमयन्ति न सत्त्वस्थास्ते नराः स्वर्गगामिनः ॥ ४९ निन्दितानि न कुर्वन्ति कुर्वन्ति विहितानि च । आत्मशक्तिं विजानन्ति ते नराः स्वर्गगामिनः ॥ एतत्ते कथितं सर्व मया तत्त्वेन पार्थिव । दुर्गतिः सुगतिश्चैव प्राप्यते कर्मभिर्यथा ॥ ५१
ततः परेषां प्रतिकूलमाचरन्पयाति घोरं नरकं सुदुःखदम् ।
सदाऽनुकूलस्य नरस्य जीविनः सुखावहा मुक्तिरदरसंस्थिता। इति श्रीमहापुराणे पाझे भूमिखण्डे वनोपाख्याने गुरुतीर्थ षण्णा तमोऽध्यायः ॥ ९६ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७७७३
अथ सप्तनवतितमोऽध्यायः ।
कुञ्जल उवाचएवमाकर्ण्य तां राजा मुनिना तेन भाषिताम् । धर्माधर्मगतिं सर्वा तं मुनि प्रत्यभाषत ॥ १
सुवाहुरुवाचसोऽहं धर्म करिष्यामि नाहं पापं द्विजोत्तम । वासुदेवं जगद्योनि भजिप्ये नितरां मुने ॥ २ ततो धर्मेण नेनैव संपूज्य मधुसूदनम् । इष्ट्वा च विविधैर्य विष्णुलोकं स भूपतिः ॥ पूजितः सर्वकामश्च प्राप्तवान्सत्वरं मुदा ॥ गते सति महालोके देवदेवं न पश्यति । क्षुधा जाता महातीबा तृष्णा चातिप्रवर्धते ॥ [*तयोश्चापि महामाज्ञ जीवपीडाकरा बहु ॥
- * एतचिहान्तर्गतः पाठो ड. छ. स. ड. पुस्तकस्थः । + एताञ्चद्वान्तर्गतः पाटो अ. पुस्तके नास्ति । एतच्चिद्रान्तर्गतः पाठः क. ख. घ. ड. च. छ. स. ट, ठ. ड. द. पुस्तकस्थः।
१४ 'नां प्रासादानां च ।। २. छ. ढ. 'पि । रिपुष्वपि हिता ये च ते न'। ३ घ. ड. छ. ट. ट. ढ. 'नः । आकोशन्तं स्तुवन्तं च तु । ४. छ. द. यः । आत्मनाप। ५ घ, छ.ट. ट. ड.क्तलोभभ । ६ इ. छ. ढ. यथोक्तेन । छ.स. महातीवा।