________________
३२०
महामुनिश्रीव्यासप्रणीतं—
[ २ भूमिखण्डे -
२८
1
कर्मक्षयात्तथा मृत्युस्तत्त्वविद्भिरुदाहृतः । विविधाः प्राणिनां रोगाः स्मृतास्तेषां च हेतवः ||२७ तस्मात्तसु प्रधानं च प्राणिनां कर्म एव हि । यत्पुरा क्रियते कर्म तदिहैव प्रभुज्यते ॥ यत्वया दृष्टमेवापि पृच्छितं तात सांप्रतम् । तस्यार्थं हि मयोक्तं वै भुञ्जाते तो हि सांप्रतम् ।। २९ आनन्दके त्वया दृष्टं तयोः कर्म सुदारुणम् । शृणु वत्स प्रवक्ष्यामि विपाकं पूर्वकर्मणः ॥ ३० कर्मभूमिरियं तात चान्या भोगाय भूमयः । स्वर्गादीनां महाप्राज्ञ कर्ता गत्वा भुनक्ति च ।। ३१ चोलदेशे महाप्राज्ञ सुबाहुर्नाम भूपतिः । रूपवान्गुणवान्धीरः पृथिव्यां नास्ति तादृशः ।। ३२ विष्णुभक्तो महाज्ञानी वैष्णवानां च सुप्रियः । कर्मणा विविधनापि ध्यायेत्स मधुसूदनम् ॥ ३३ अश्वमेधादिकान्सर्वान्यजेद्यज्ञान्स वै नृपः । पुरोधास्तस्य चैवास्ति जैमिनिर्नाम ब्राह्मणः || ३४ स चाssय सुबाहुं तमिदं वचनमब्रवीत् । राजन्देहि सुदानानि यैश्व सौख्यं प्रभुज्यते ।। ३५ दानैस्तु लभते लोकान्दुर्गान्मेत्य गतो नरः । दानेन सुखमाप्नोति यशः प्राप्नोति शाश्वतम् ॥ ३६ दानेनैवास्य सत्कीर्तिर्जायते मर्त्यमण्डले । [*यावत्कीर्तिः स्थिरा चात्र तावत्कर्ता दिवं वसेत् ३७ तद्दानं दुष्करं प्राहुर्दातुं नैव शक्यते । तस्मात्सर्वप्रयत्नेन दातव्यं मानवैः सदा ॥ ] ३८
राजोवाच
दानस्य तपसो वाऽपि द्वयोर्मध्ये सुदुष्करम् । किं वा महाफलं प्रेत्य तन्मे ब्रूहि द्विजोत्तम ।। ३९ जैमिनिरुवाच
दानान्न दुष्करतरं पृथिव्यामस्ति किंचन । राजन्प्रत्यक्षमेवैकं दृश्यते लोकसाक्षिकम् ।। परित्यज्य प्रियान्प्राणान्धनार्थे लोभमोहिताः । प्रविशन्ति नरा लोके समुद्रमटवीं तथा ॥ सेवामन्ये प्रकुर्वन्ति प्रपठन्ति विपश्चितः । हिंसामायान्बहून्क्लेशान्कृषिं चैत्र तथा परे || तस्य दुःखार्जितस्यापि प्राणेभ्योऽपि गरीयसः । अर्थस्य पुरुषव्याघ्र परित्यागः सुदुष्करः ॥ विशेषतो महाराज तस्य न्यायार्जितस्य च ||
४०
४१
४२
४३
४८
श्रद्धया विधिवत्पात्रे दत्तस्यान्तो न विद्यते । श्रद्धा धर्मसुता देवी पावनी विश्वभाविनी ॥ ४४ सावित्री प्रसवित्री च संसारार्णवतारिणी । श्रद्धयाँ ध्यायते धर्मो विद्वद्भिश्वाऽऽत्मवादिभिः ॥४५ निष्किचनास्तु मुनयः श्रद्धावन्तो दिवं गताः । सन्ति दानान्यनेकानि नानाभेदैर्नृपोत्तम ।। ४६ अन्नदानात्परं नास्ति प्राणिनां गतिदायकम् । तस्मादन्नं प्रदातव्यं पयसा च समन्वितम् ॥ ४७ मधुरेणापि पुण्येन वचसा च समन्वितम् । नास्त्यन्नाच्च परं दानमिह लोके परत्र च ॥ वारणाय हितायैव सुखसंपत्तिहेतवे । श्रद्धया दीयते पात्रे निर्मलेनापि चेतसा ॥ अनस्यैकप्रदानस्य फलं भुङ्क्ते नरः सदा । ग्रासाग्रं संप्रदातव्यं मुष्टिमस्थं न संशयः ॥ अक्षयं जायते तस्य दानस्यापि महत्फलम् । न च प्रस्थं न वा मुष्टिं यस्यापि न हि संभवेत् ५ १ अनास्तिकप्रभावेन पर्वणि प्राप्य मानवः । श्रद्धया ब्राह्मणं चैकं भक्त्या चैव प्रभोजयेत् ॥ ५२ एकस्यापि प्रदानस्य यस्यापि नरेश्वर । जन्मान्तरं सुसंप्राप्य नित्यमेव भुनक्ति च ॥ पूर्वजन्मनि यद्दत्तं भक्त्या पात्रे सकृन्नरैः ॥
४९ ५०
५३
* एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. झ. ड. ट. पुस्तकस्थः ।
१ क. ख. च. छ. झ. ड. सर्पादीनां । घ. ८. उ. सूर्यादीनां । ङ. ढ. सत्वादीनां । २ न. कर्मसुता । ३ क. ख. ङ. च. छ. ड. द. 'या साध्यते धर्मो महाधनार्थराशिभिः । ४ ञ. सर्वाणि ।