________________
१६ षट्षष्टितमोऽध्यायः ]
पद्मपुराणम् । संकटेनाविविक्तेन योनिमार्गेण निर्गतम् । विमूत्ररक्तचित्राङ्गं पदकौशिकसमुद्भवम् ॥ ५८ अस्थिपञ्जरसंघातं ज्ञेयमस्मिन्कलेवरे । शतत्रयं षष्ट्यधिकं पञ्चपेशीशतानि तु ॥ सार्धाभिस्तिसृभिश्छन्नं समन्ताद्रोमकोटिभिः । शरीरं स्थूलसूक्ष्माभिदृश्यादृश्याश्च ताः स्मृताः६० एतावतीभिर्नाडीनां कोटिभिस्तत्समन्वितम् । प्रस्वेदमशुचिं ताभिरन्तरस्थं च तेन हि ॥ ६१ द्वात्रिंशदशनाः प्रोक्ता विंशतिश्च नखाः स्मृताः । पित्तस्य कुंडवं ज्ञेयं कफस्यार्धाढकं तथा ॥६२ बसायाश्च पैलत्रिंशत्तदर्ध कललस्य वा । वातार्बुदपलं ज्ञेयं पलानि दश मेदसः ॥ ६३ पलत्रयं महारक्तं मजा रक्ताच्चतुर्गुणा । शुक्रार्धकुडवं ज्ञेयं तदर्धं देहिनां बलम् ॥ ६४ मांसस्य चैकपिण्डेन पलसाहस्रमुच्यते । रक्तं पलशतं ज्ञेयं विण्मूत्रं चाप्रमाणतः ॥ इति देहगृहं राजनित्यमन्वेष्यमात्मनः । अविशुद्धं विशुद्धस्य कर्मबन्धविनिर्मितम् ॥ ६६ [*शुक्रशोणितसंयोगाद्देहः संजायते कचित् । नित्यं विण्मूत्रपूर्णश्च तेनायमशुचिः स्मृतः ॥ ६७ यथा वै विष्ठया पूर्णः (ोऽशुचिः स्यात्तु बहिर्घटः]। पञ्चभिः शोध्यमानोऽपि देहोऽयमशुचिर्भवेत् यं प्राप्यातिपवित्राणि पञ्चगव्यं हवींषि च । अशुचित्वं क्षणाधान्ति कोऽन्योऽस्मादशुचिस्ततः॥ [हयान्यप्यनपानानि यं प्राप्य सुरभीणि च । अशुचित्वं प्रयान्त्याशु कोऽन्यः स्यादशुचिस्ततः] हे जनाः किं न पश्यध्वं यो निर्याति दिने दिने । देहात्तु कश्मलं पूतिस्तदाधारः कथं शुचिः॥ देहः संसिच्यमानोऽपि पश्चगव्यकुशाम्बुभिः । घृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति ॥ ७२ स्रोतांसि यस्य सततं प्रवहन्ति क्षणे क्षणे । कफमूत्रायत्यशुचिः स देहः शुध्यते कथम् ॥ ७३ सर्वाशुचिविलग्नस्य शरीरस्य न विद्यते । शुचिरेकः प्रदेशोऽपि शुचिर्न स्थाढतेऽपि वा ॥ ७४ दृष्ट्वा च देहस्रोतांसि मृदाऽद्भिः शोध्यते करः । तथाऽप्यशुचिमाजश्च न विरज्यन्ति ते नराः७५ कायमगरुधूपाधैर्यत्नेनापि सुसंस्कृतम् । न जहाति स्वभावं हि श्वपुच्छमिव नामितम् ॥ ७६ यथा जात्यैव कृष्णोर्णा न शुक्ला जातु जायते । संशोध्यमानाऽपि तथा भवेन्मूर्तिर्न निर्मला।।७७ जिघ्रनपि स्वदुर्गन्धं पश्यन्नपि मलं स्वकम् । न विरज्येत लोकोऽयं पीडयन्नपि नासिकाम् ।।७८ अहो मोहस्य माहात्म्यं येन व्यामोहितं जगत् । जिघन्पश्यन्स्वकान्दोषान्कायस्य न विरज्यते।। स्वदेहाशुचिगन्धेन यो विरज्येत मानवः । विरागकारणं तस्य किमन्यदुपदिश्यते ॥ ८० सर्वमेव जगत्पूतं देहमेवाशुचि परम् । जन्मनाऽवयवस्पर्शाच्छुचिरप्यशुचिर्भवेत् ॥ ८१ गन्धलेपापनोदार्थ शौचं देहस्य कीर्तितम् । यस्यापि विगमात्पश्चाद्भावशुद्ध्या विशुध्यति ॥ ८२ गातोयेन सर्वेण मृद्भारावलेपनैः । मो दुर्गन्धदेहोऽसौ भावदुष्टो न शुध्यति ॥ ८३ तीर्थस्नानस्तपोभिश्च दुष्टात्मा न च शुध्यति । स्वमूर्तिः क्षालिता तीर्थे न शुद्धिमधिगच्छति।।८४ अन्तर्भावपदुष्टस्य विशतोऽपि हुताशनम् । न स्वर्गो नापवर्गश्च देहनिर्वन्धनं परम् ॥ ८५ भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु । अन्यथाऽऽलिङ्गयते कान्ता भावेन दुहिताऽन्यथा ॥८६ मनसो भिद्यते वृत्तिभिश्रेष्वपि च वस्तुषु । अन्यथैव ततः पुत्रं भावयत्यन्यथा पतिम् ॥ ८७ __* एतचिहान्तर्गतोऽयं पाठो ड. छ. झ. ह. पुस्तकस्थः । * एतचिहान्तर्गतः पाठो ड. पुस्तकस्यः।
१क. ख. ऊ. च. छ. स. द. 'क्तसिताङ्गं । २ ड. कुण्डं विशे' । ३ घ. ङ. ज. स. ट. ड. पलं विंश। ४म. वाललस्य । ५. ख. ऊ. च. छ.स. द. "न्ति गिरोरिव । क । ६ अ. स्यादते । ७ घ, ङ, छ. ज. स. ट... 'पि सुदा ८. मेव । ९घट.ह.द्वारः शतले ।१. क. ख. रैश्च नगोपमैः । आ मृत्योराचरशाचं भा . * च गोमयैः । आ मृत्योराचरडशौचं भा। स. रैश्च नगोपमैः । म । ११ क. स. ङ. च. छ.स. द. निर्दहन ।