SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २४८ महामुनिश्रीव्यासप्रणीतं [ २ भूमिखण्डेविष्णुरुवाचएवमाकर्ण्य तत्सर्व सारसेन प्रभाषितम् । तं जगाम स वेगेन ब्रह्मात्मानं नृपोतमः ॥ ५८ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्यान एकषष्टितमोऽध्यायः ॥ ६१ ॥ आदितः श्लोकानां समष्टयङ्काः-६३६० अथ द्विषष्टितमोऽध्यायः । विष्णुरुवाचकुण्डलस्याऽऽश्रमं गत्वा सत्यधर्मसमाकुलम् । [*सुकर्माणं ततो दृष्ट्वा पितृमातृपरायणम् ॥ १ शुश्रूषन्तं महात्मानं गुरू सत्यपराक्रमम् । महारूपं महातेज महाज्ञानसमाकुलम् ॥ २ मातापित्रोस्तु पादान्त उपविष्टं नृपोत्तम । महाभक्त्याऽन्वितं शान्तं सर्वज्ञानमहानिधिम् ॥ ३ कुण्डलस्यापि पुत्रेण सुकर्मणा महात्मना । आगतं पिप्पलं दृष्ट्वा द्वारदेशे महामतिम् ॥ ४ आसनात्तूर्णमुत्थाय अभ्युत्थानं कृतं पुनः । आगच्छस्व महाभाग विद्याधर महामते ॥ ५ आसनं पाद्यमयं च ददो तस्मै महात्मने । निर्विघ्नोऽसि महाप्राज्ञ कुशलेनापि वर्तसे ॥ ६ निरामयं च पप्रच्छ पिप्पलं च समागतम् । यस्मादागमनं तेऽत्र तत्सर्व प्रवदाम्यहम् ॥ ७ वर्षाणां हि सहस्राणि यावत्रीणि त्वया तपः । तप्तमेव महाभाग सुरेभ्यः प्राप्तवान्वरम् ॥ ८ वश्यत्वं च त्वया प्राप्तं कामचारस्तथैव च । तेन मत्तो न जानासि गर्व उद्वहितस्त्वया ॥ ९ दृष्ट्वा ते चेष्टितं सर्व सारसेन महात्मना । ममाभिधानं कथितं मम ज्ञानमनुत्तमम् ॥ १० पिप्पल उवाचयोऽप्यसौ सारसो विम सरित्तीरे प्रयुक्तवान् । सर्वज्ञानं वदेन्मां हि स च कः प्रभुरीश्वरः॥११ सुकर्मोवाचभवन्तमुक्तवान्यो वै सरित्तीरे तु सारसः । ब्रह्माणं तं महात्मानं विद्धि त्वं परमेश्वरम् ॥ १२ अन्यत्कि पृच्छसे विप्र ब्रूहि तच्च वदाम्यहम् ।। विष्णुरुवाचएवमुक्तः स धर्मात्मा सुकर्माणमुवाच ह ॥ पिप्पल उवाचत्वयि वश्यं जगत्सर्वमिति शुश्रुम भूतले । तन्मे त्वं कौतुकं विष प्रदर्शय प्रयत्नतः ॥ १४ पश्य कौतुकमेवौत्र वश्यावश्यस्य कारणम् । तमुवाच स धर्मात्मा सुकर्मा पिप्पलं प्रति ॥ १५ अथ सस्मार वे देवान्सुकर्मा प्रत्ययाय वै । इन्द्राद्याल्लोकपालांश्च देवांश्चाग्निपुरोगमान् ॥ १६ समागताः समाहूता नागविद्याधरास्तथा । सुकर्माणं ततः पीचुस्ते सर्वेऽपि समागताः ॥ कस्मात्स्मृतास्त्वया विष भवांस्तत्कारणं वद ॥ * एतचिहान्तर्गतः पाठः क. ख. घ. हु. च. छ. स.ट, ड. ढ. पुस्तकस्थः । १क. ख. उ. च. छ. झ. द. 'न दशारण्यं महाश्रमम् । घ. ट. ड. 'न महात्मानं ददर्श ह । २ क. ख. घ. ङ. च. छ.स. ट. इ. द. तेऽद्य । ३ क. ख. घ. ड.. च. छ. झ.ट, ड. द. 'वाद्य व। ४ क. ख. घ. ड झ. ट. ड. द.प्रोचुदबाथामिपुरोगमाः ।।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy