________________
२४३
५९एकोनषष्टितमोऽध्यायः ]
पद्मपुराणम् ।
अर्थकोनषष्टितमोऽध्यायः ।
विष्णुरुवाचककला सर्वतीर्थानि साधयित्वा गृहं प्रति । प्रस्थितः सार्थवाहेन महानन्दसमन्वितः ॥ १ एवं चिन्तयते नित्यं संसारः सफलो मम । स्वर्ग प्रयान्ति ते सर्वे पितरो मम नान्यथा ॥ २ तावत्प्रत्यक्षरूपेण बद्ध्वा तस्य पितामहान् (हम्) । पुरतस्तस्य संब्रूते न हि ते पुण्यमुत्तमम् ॥ ३
*दिव्यरूपो महाकायः कुकलं वाक्यमब्रवीत् । तीर्थयात्राफलं नास्ति श्रम एव वृथा कृतः] ४ 'स्वयं संतोषमायाति न हि ते पुण्यमुत्तमम् । एवं श्रुत्वा तदा वैश्यः कृकलो दुःखपीडितः ॥५ भवान्को वा वदत्येवं कस्माद्रद्धः पितामहः । केन दोषप्रभावेन तन्मे त्वं कारणं वद ॥ ६ कस्मात्तीर्थफलं नास्ति मम यात्रा कथं न हि । मर्वमेवं समाचक्ष्व यदि जानासि संस्फुटम् ॥ ७
धर्म उवाचविनीतां विमला पुण्यां भार्या त्यक्त्वा प्रयाति यः। तस्य पुण्यतमं सर्व वृथा भवति नान्यथा ८ धर्माचारपरी पुण्यां साधुव्रतपरायणाम् । पतिव्रतपरां भार्या सुगुणां पुण्यवत्सलाम् ॥ ९ तामेवापि परित्यज्य धर्मकार्य प्रयानि यः । वृथा तस्य कृतः सर्वो धर्मो भवति नान्यथा ॥ १० सर्वाचारपरा धन्या धर्मसाधनतत्परा । सनीव्रतरता नित्यं सर्वज्ञा ज्ञानवन्सला ॥ ११ एवंगुणा भवेद्भायों यस्य पुण्या महासती । तस्य गेहे सदा देवास्तिष्ठन्ति च महौजसः ॥ १२ पितरो गेहमध्यस्था यशो वाञ्छन्ति तस्य च । गङ्गाद्याः सरितः पुण्याः मागरास्तत्र नान्यथा॥ [*पुण्या सती यस्य गहे वर्तते सत्यतत्परा । तत्र यज्ञाच गावश्च ऋपयस्तत्र नान्यथा ॥ १४ तत्र सर्वाणि तीर्थानि पुण्यानि विविधानि च । भायायोगेण निष्ठन्ति सर्वाण्येतानि नान्यथा १५ पुण्यभार्याप्रयागंण मुगार्हस्थ्यं प्रजायते। [गार्हस्थ्यात्परमा धर्मो द्वितीयो नास्ति भूतले ॥ १६ गृहस्थस्य गृहः पुण्यः मत्य पुण्यसमन्वितः । सर्वतीर्थमयो वैश्य सर्वदेवसमन्वितः] ॥ १७ गाहस्थ्यं च समाश्रित्य सर्वे जीवन्ति तत्वतः । तादृशं नैव पश्यामि ह्यन्यमाश्रममुत्तमम् ॥ १८ मत्राग्निहोत्रं देवाश्च सर्वे धर्माः सनातनाः । दानाचाराः प्रवर्नन्त यस्य मुमश्च वै गृहे ॥ १० एवं यो भार्यया हीनस्तस्य गेहं वनायते । यज्ञाश्चव न सिध्यन्ति दानानि विविधानि च ॥२० भार्याहीनस्य पुंसोऽपि न सिध्यति महाव्रतम् । धर्मकर्माणि मर्वाणि पुण्यानि विविधानि च २१ नास्ति भार्यासमं तीर्थ धर्ममाधन हेतवे । शृणुप्व त्वं गृहस्थस्य नान्यो धर्मो जगत्रये ॥ २२ यत्र भार्या गृहं तत्र पुरुषस्यापि नान्यथा । ग्रामे वाऽप्यथवाऽरण्ये सर्वधर्मस्य साधनम् ॥ २३ नास्ति भार्यासमं तीर्थ नास्ति भार्यासमं सुखम् । नास्ति भार्यासमं पुण्यं तारणाय हिताय च। धर्मयुक्तां सती भार्या त्यक्त्वा याति नराधमः । गृहधर्म परित्यज्य काऽऽस्ते धर्मस्य ते फलम् ॥ तया विना यदा तीर्थे श्राद्धं दानं कृतं त्वया । तेन दोषेण वै बद्धास्तव पूर्वपितामहाः ॥ २६ ___ * एतच्चिद्वान्तर्गतः पाठः क. ख. ग. घ. ड. च. छ. झ. इ. द. पुस्तकस्थः । 1 एतचिहान्तर्गतः पाठो ग. घ. छ. स. इ. पुस्तकस्थः । । एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. झ. द.पुस्तकस्थ: । एतचिहान्तर्गतः पाठः क. न. च. छ. झ. ह. पुस्तकस्थः ।
१ ड. पितामहः । २ ह. छ. द. शततीर्थफलं । ३ ड. 'च-तीर्थ सुशीला पुण्यां तां भा। ४ क. ख ग. प. ह. ... ट. ड. द. जन्तवः । ५ क. ख. ग. घ. दु. च. छ. झ. ट. ड. द. म् । यत्राग्नि । ६ क. ख. च. छ.स.ट. ड. वेदाश्च ।