________________
२०८ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेतथैवालंकृतो यूथो भवता परिशोभते । त्वां विनाऽयं महाभाग कीटंग्यूथो भविष्यति ॥ ३४ तवैव सुबलेनापि गर्जमानाश्च शूकराः। विचरन्ति गिरी कान्त तनया मम बालकाः॥ ३५ मृदून्मूलांस्तु भक्षन्ति निर्भयास्तव तेजसा । दुर्गेषु वनकुञ्जेषु पर्वतान्तर्दरीषु च ॥ ३६ न कुर्वन्ति भयं तीव्र सिंहानामिह पर्वते । मानवानां महाभाग पालितास्तव तेजसा ॥ ३७ त्वया त्यक्ता अमी सर्वे बालका ममदारकाः। दि(दी)नाश्चैव वराकाश्च भविष्यन्ति विचेतनाः३८ नित्यं चैव सुखं कर्म गत्वा पश्यन्ति बालकाः। पतिहीना यथा नारी शोभते नेव शोभना॥३९ अलंकृता चापि दिव्यैरलंकारैः सुकाञ्चनैः । रत्नैः परिच्छदैर्वस्त्रैः पितृमातृमहादरैः॥ ४० श्वश्रूश्वशुरकैश्वान्यैः पतिहीना न भाति सा । चन्द्रहीना यथा रात्रिः पुत्रहीनं यथा कुलम् ॥४१ दीपहीनं यथा गेहं नेव भाति कदा किल । त्वां विनाऽयं तथा यूथो नेव शोभति मानद ।।४२ आचारेण यथा मयों ज्ञानहीनो यतिः किल । मंत्रहीनं यथा राज्यं तथाऽयं नैव शोभते॥ ४३ कैवर्तेन विना नावः संपूर्णाः परिमागरे । न भान्न्येव यथा सार्थः मार्थवाहेन वै तथा ॥ ४४ सेनाध्यक्षेण च विना यथा सेन्यं न भाति च । त्वां विना वे तथा सेन्यं शूकराणां महामते ॥ दीनो भविष्यति यथा वेदहीनो यथा द्विजः । मयि भारं कुटुम्बस्य विनिवेश्य प्रगच्छसि ॥४६ मरणं ज्ञात्वा सुलभं का प्रतिज्ञा तवंशी । त्वां विनाऽहं न शक्नोमि धर्तुं प्राणान्मियेश्वर ॥ ४७ त्वयैव सहिता स्वर्ग भूमि वाऽपि महामते । नरकं वा प्रभाक्ष्यामि मत्यं सत्यं वदाम्यहम् ॥ ४८ अथ पुत्रान्सपुत्रांश्च गृहीत्वा यूथमुत्तमम् । आवां बजाव यूथेश दुर्गमेवं सुकन्दरम् ॥ ४९ जीवितव्यं परित्यज्य मरणायाभिगम्यते । तत्र किं दृश्यते लाभो मरणे वद सांप्रतम् ॥ ५०
वराह उवाचवीराणां त्वं न जानासि सुधर्म शृणु सांप्रतम् । युद्धाथिना हि वीरेण वीरं गत्वा प्रयाचितम् ॥ देहि मे योधनं संख्ये युद्धार्थी त्वहमागतः । परण याचितं युद्धं न ददाति यदा भटः॥ ५२ कामाल्लोभाद्भयाद्वाऽपि मोहाद्वा शृणु वल्लभ । कुम्भीपाके स नरके वसेद्युगसहस्रकम् ।। ५३ क्षत्रियाणां परो धर्मो युद्धं देयं न संशयः । तद्युद्धं दीयमानेन रङ्गभूमि गतेन वै ॥ ५४ जित्वा शत्रु पुनस्तत्र यशः कीर्ति प्रभुञ्जते । नो वा हतोऽपि युद्धेऽस्मिन्युध्यमानः सुनिर्भयः ॥ वीरलोकमवाप्नोति दिव्याल्लोकान्प्रभुञ्जते । यावद्वर्षसहस्राणां विंशत्येका प्रिये शृणे ॥ ५६ वीरलोके वसेत्तावद्देववीरैर्महीयते । मनुपुत्रः समायातः स्वयं वीरो न संशयः॥ ५७ संग्राम याचमानस्तु युद्धं देयं मया ध्रुवम् । युद्धातिथिः समायाता विष्णुरूपः सनातनः ॥ सत्कारो युद्धरूपेण कर्तव्यश्च मया शुभे ॥
शूकयुवाचयदा युद्धं त्वया देयं राज्ञे चैव महात्मने । ततोऽहं पौरुपं कान्त पश्यं वै तव कीदृशम् ॥ ५९ एवमुक्त्वा प्रियान्पुत्रान्समाहूय त्वरान्विता । उवाच पुत्रका यूयं शृणुध्वं वचनं मम ॥ ६० बुद्धातिथिः समायावो विष्णुरूपः सनातनः । मया तत्र प्रगन्तव्यं यत्रायं हि गमिष्यति ॥ ६१
१ ग. घ. ज. ट. 'दृप्रपो भ । २ ग. घ. ड. ज. स. ट. ड. द. यथा। ३ ड. झ. . मत्रिहीनो यथा राजा त । ब. मबहीनो यथा राजा त। ४ ग. प. ज.ट. 'ते । सर्वमेव प्र। ५ ग. घ. ज. त्वं राजनीति स्वध। ६ ज. युधि । ङ. द. नरः । ७ ज. भे । भुड़े पापं स नरके यावद्यु। ८ ङ. ढ. व्यान्भोगान्प्र। ९ ज. णु । । नर्भले वीरलोकादवीर्य महीतले । म।