________________
२७ सप्तविंशोऽध्यायः ] पद्मपुराणम् ।
१७३ जानीवस्तन्न विभेन्द्रा अविज्ञातगुणस्य हि । भविष्यैश्च गुणैः पुण्यैः स्तोतव्योऽयं नराधिपः ॥७६ [*कृतवान्यानि कर्माणि पृथुरेव महायशाः]। ऊचुस्ते मुनयस्तस्य गुणान्दिव्यांश्च भाविनः॥ ७७ सत्यवाज्ञानसंपन्नो बुद्धिमाम्ख्यातविक्रमः । सदा शूरो गुणग्राही पुण्यवांस्त्यागवान्गुणी ॥ ७८ धार्मिकः सत्यवादी च यज्ञानां याजकोत्तमः । प्रियवाक्सत्याग्दान्तो धान्यवान्धनवान्सुधीः ७९ गुणज्ञश्च कृतज्ञश्च धर्मज्ञः सत्यवत्सलः । सर्वगः सर्वदो वेत्ता ब्रह्मण्यो वेदवित्सुधीः ॥ ८० यज्ञवांश्च सुशूरश्च वेदवेदाङ्गपारगः । धन्यो गोप्ता प्रजानां च विजयी ममराङ्गणे ।। ८१ राजसूयादिकानां तु यज्वाऽयं राजसत्तमः । आहर्ता भूतले चैकः सर्वधर्मसमन्वितः ॥ ८२ एते गुणा अस्य चाग्रे भविष्यन्नि महात्मनः । ऋषिभिस्तो नियुक्तौ च कुर्वाणौ सूतमागधौ ८३ गुणश्चैव भविष्यैश्च स्तोत्रं तस्य महात्मनः । नदाप्रभृति वै लोकाः स्तवैः स्तुष्टा महामते ॥ ८४ पुरतश्च भविष्यन्ति दातारः स्तावकैर्गुणैः । ततःप्रभृति लोकेऽस्मिन्स्तवेषु द्विजसत्तमाः ॥ ८५ मागधाद्याः प्रपूज्यन्ते तेषां द्रविणमुत्तमम् । सताय मागधायैव बन्दिनेऽथ महोदयम् ॥ ८६ चारणाय ततः प्रादात्कलिङ्ग देशमेव च । पृथुः पादाच धर्मात्मा हैहयं देशमेव च ॥ ८७ रेवातीरे पुरं कृत्वा स्वनाम्ना नृपसत्तमः । ब्राह्मणेभ्यो द्विज श्रेष्ठास्तदाऽदाद्विपुलं वसु ॥ ८८ सर्वज्ञ सर्वदातारं धर्मवीर्य नरोत्तमम् । ददृशुस्तं प्रजाः सर्वा मुनयश्च ततोऽमलाः ॥ ८९. ऊचुः परस्परं पुण्य एष राजा महामतिः । देवादीनां वृत्तिदाता ह्यस्माकं च विशेषतः ॥ प्रजानां पालकश्चैव वृत्तिदो हि भविष्यति । इयं धात्री महामाज्ञा उप्तं वीजं पुग किल । जीवनार्थ प्रजानां तु ग्रसयित्वा स्थिराऽभवत्।।९१ ततः पृथु द्विजश्रेष्ठाः प्रजाः समभिदुद्रुवुः । विधत्म्वति सुवृत्तिं नो मुनीनां वचनात्तदा ॥ ९२ ग्रसयित्वा नदा तानि पृथ्वी जाता सुनिश्चला । भयं प्रजानां सुमहन्स दृष्ट्वा राजसत्तमः ॥ ९३ महपिवचनाचापि प्रगृध सशरं धनुः । अभ्यधावत वेगेन पृथ्वी क्रुद्रो नराधिपः ॥ कुञ्जरं रूपमास्थाय भयात्तस्य तु मेदिनी । वनेषु दुगदेशेषु गुप्ता भूता चचार सा ॥ ९५ न पश्यति महाप्राज्ञः कुरूपं द्विजमत्तमाः । आचचक्षुमहाभागं कुञ्जरं रूपमास्थिता ॥ ९६ ततः कुञ्जररूपां तामभिदुद्राव पार्थिवः । ताड्यमाना च सा तेन निशितैमागणस्तदा ॥ ९७ हरिरूपं समास्थाय पलायनपराऽभवत् । हरिरूपां पार्थिवस्तामभिदुद्राव वेगवान् ॥ ९८ ततः क्रुद्धो महाप्राज्ञो रोपादरुगलोचनः । सुवाणेनिशिस्तीक्ष्णगजघान स मेदिनीम् ॥ ९९ आकुला व्याकुला जाता बाणाघातहता तदा । महिषीरूपमास्थाय पलायनपराऽभवत् ।। १०० तामप्यधावद्वैगन बाणपाणिधनुर्धरः । सा गांभूत्वा द्विजश्रेष्ठाः स्वर्गमेव गता द्रुतम् ॥ १०१ ब्रह्मणः शरणं प्राप्ता विष्णोश्चैव महात्मनः । रुद्रादीनां च देवानां त्राणस्थानं न विन्दति ॥१०२ अलभन्ती च सा त्राणं वैन्यमेवान्वपद्यत । तस्य पार्वे पुनः प्राप्ता बाणघातसमाकुला ॥ १०३
* एतचिहान्तर्गत: पाठोऽय क. ख. ग. घ. इ. च. छ. झ.ट. ड. द. पुस्तकस्थः ।
१ क. ख. ग. घ. दु. च. छ. झ. ट. ड. द. नरोनमः । २ क. ख. ग. घ. च. छ झ. ट. ड. 'नयः सर्व गणान्दिव्यान्महात्मन । ३. 'द्धिमाश्यतविनमः । । क. ख. इ. च. छ. अ. द. व चव धन्यवाग्धनवान्गुणी। ग । ५क. ख. र. च. छ झ. ढ. धीः । प्रज्ञावां । ६ क. ख. ग. घ. ट. च. छ. झ.ट ह. द. धाता। ७ क. ख. ग. घ. च. छ. झ.ट. इ आचार्याद्याः । ८ क. ख. इ. छ. झ. दानिलि देशनुत्तम् । ९ ग..ट. ड. क्षयं । १० अ. कारं द्वि। ११ क. ख च. छ, झ. 'क्षुर्महात्मानः कु।