________________
१२२
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे -
एवमुक्त्वा सुतं विप्रो दर्शयामास तां तनुम् । यथा पूर्व स्थितौ तौ तु तथाऽसौ दृष्टवान्गुरू || २ दीप्तिमन्तौ महात्मानौ सूर्यविम्बोपमावुभौ । ननाम पादौ सद्भक्त्या भयोस्तु महात्मनोः ॥ ३ ततः सुतं स संभाष्य हर्षेण महताऽन्वितः । विष्णोः प्रमादाद्धर्मात्मा भार्यया सह केशवम् ॥ ४ जगाम निजपुभ्यैश्च योगाभ्यासेन सत्तमः । प्रविष्टो वैष्णवं धामे स मुनिर्दुर्लभं पदम् || न त्वन्यैः प्राप्यते पुण्यैस्तपोभिर्मुक्तिदं पदम् । विष्णांस्तु चिन्तनैर्न्यामध्यानज्ञानैः स्तवैस्तथा ६ न दानैस्तीर्थयात्राभिर्दृश्यते मधुसूदनः । समाधिज्ञानयोगेन दृश्यते परमं पदम् ।। महायोगैर्यथा विमः प्रविष्टो वैष्णवीं तनुम् ॥
७
सूत उवाच -
८
१०
११
१२
१३
१४
१५
१६
१७
१८
ततस्तत्र तपस्तेपे सोमशर्मा महाद्युतिः । अश्मलोष्टसमं मेने काञ्चनं भूषणं पुनः ।। जिताहारः स धर्मात्माँ विक्रियापरिवर्जितः । म सर्वान्विषयांस्त्यक्त्वा एकान्तमपि सेवते ।। ९ योगासनसमारूढो निराशो निष्परिग्रहः । तस्य वेला तु संप्राप्ता मृत्युकालस्य वै तदा ॥ आगता दानवा विप्रं सोमशर्माणमन्तिके । मृत्युकाले तु संप्राप्ते प्राणयात्राप्रवर्तिके || शालग्रामे महाक्षेत्र ऋषीणां मानवर्धने । केचिद्वदन्ति वै दैत्याः केचिद्वदन्ति दानवाः ॥ एवंविधो महाञ्शब्दः कर्णरन्ध्रगतस्तदा । तस्यैव विप्रवर्यस्य सुचिरात्सोमशर्मणः ॥ ज्ञानध्यानविवग्नस्य प्रविष्टं दैत्यजं भयम् । तेन ध्यानेन तस्यापि दैत्यभूतेन वै तदा || सत्वरं च ततः प्राणा गतास्तस्य महात्मनः । दैत्यभावेन संयुक्तः स हि मृत्युवशं गतः ।। तस्माद्दैत्यगृहे जातो हिरण्यकशिपोः सुतः । देवासुरे महायुद्धे निहतश्चक्रपाणिना । युध्यमानेन तेनापि महलादेन महात्मना । सुदृष्टं वासुदेवत्वं विश्वरूपसमन्वितम् || योगाभ्यासेन पूर्वेण ज्ञानमासीन्महात्मनः । सस्मार पूर्वकं सर्वे चरितं शिवशर्मणः ॥ प्रागहं सोमशर्माख्यः प्रविष्टां दानवीं तनुम् । अस्मात्कायात्कदा पुण्यं केवलं धाम उत्तमम् ॥ १९ प्रयास्यामि महापुण्यैर्ज्ञानाख्यैर्मोक्षदायकैः । समरे स्त्यता तेन महलादेन महात्मना ॥ एवंविधा कथा पूर्व श्रूयते द्विजसत्तमाः । एवं तु च समाख्यातं सर्वसंदेहनाशनम् ।। महलादे निहते संख्ये देवदेवेन विष्णुना । रुरुंद कमला सा तु हतपुत्रा च कामिनी || प्रहलादस्य तु या माता हिरण्यकशिपोः प्रिया । प्रहलादस्य महाशोकदिवा रात्रौ प्रशोचति ॥ २३ पतिव्रतां महाभागामागत्य भगवत्प्रियः । रुदमाना दिवा रात्रौ नारदस्तामुवाच ह ।। मा शुचस्त्वं महाभागे पुत्रार्थे पुण्यभागिनि । निहतो वासुदेवेन तव पुत्रः समेप्यति ॥ भूयः स्वलक्षणोपेतस्त्वसुरश्च महामतिः । महलादेति च वै नाम पुनरस्य भविष्यति ।। विहीनश्वासुरैर्भावैर्देवत्वेन समन्वितः । इन्द्रत्वं भोक्ष्यते भद्रे सर्वदेवैर्नमस्कृतः ।। सुखी भव महाभागे तेन पुत्रेण वै सदा । [न प्रकाश्यं त्वया देवि भवार्थदं च कस्यचित् ॥ २८ वक्तव्यं ज्ञानभावैस्तत्स॑गोप्यं कुरु सर्वदा ] | एवमुक्त्वा गतां विमो नारदो मुनिसत्तमः ।। २९ कमलायाश्वोदरे तु जन्मास्यानुत्तमं पुनः । प्रहलादेति च वै नाम तस्य ख्यातं महात्मनः ।। ३० बाल्यभावं गतो विमाः कृष्णमेव व्यचिन्तयत् । नरसिंहप्रसादेन देवराजोऽभवद्दिवि ॥
२०
२१
२२
२४
२५
२६
२७
३१
* क. ख. ग. घ. च. छ. झपुस्तकस्थोऽयं पाठः ।
१क ख. च. छ. झ. 'म मुनिभिर्दु । २ क. ख. च. छ. झ. यज्ञैः । ३ क. ख. न. ङ च छ ज झ ट ड ढ "मा निद्रा प ।४क. ख. च. छ. 'तस्तवांदरे मौं ।