SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ सू. ८-१-२०] स्वोपज्ञवृत्तिसहितम् आयुरप्सरसोर्वा ॥ ८।१।२०॥ एतयोरन्त्यव्यञ्जनस्य सो वा भवति ॥ दीहाउसो दीहाऊ । अच्छरसा अच्छरा ॥ २० ॥ ककुभो हः॥ ८ । १ । २१ ॥ ककुभशब्दस्यान्त्यव्यञ्जनस्य हो भवति ॥ कउहा ॥ २१ ॥ धनुषो वा ॥ ८।१ । २२ ॥ धनुःशब्दस्यान्त्यव्यञ्जनस्य हो वा भवति ॥ धणुहं धणू ॥ २२ ॥ मोनुस्वारः॥ ८।१ । २३ ॥ अन्त्यमकारस्यानुस्वारो भवति ॥ जलं फलं वच्छं गिरिं पेच्छ । क्वचिद् अनन्त्यस्यापि । वणम्मि । वर्णमि ॥ २३ ॥ वा स्वरे मश्च ।। ८।१ । २४ ॥ अन्त्यमकारस्य स्वरे परेऽनुस्वारो वा भवति । पक्षे लुगपवादो मस्य मकारश्च भवति ॥ वन्दे उसभं आजिअं । उसभमजिअं च वन्दे ॥ बहुलाधिकाराद् अन्यस्यापि व्यञ्जनस्य मकारः । साक्षात् । सक्खं ॥ यत् । जं ॥ तत् । तं ॥ विष्वक् । वीसुं ॥ पृथक् ॥ पिहं ॥ सम्यकू । सम्मं ॥ इहं । इहयं । आलेड्डुअं इत्यादि ॥ २४ ॥ ङ-ज-ण-नो व्यञ्जने ॥८।१ । २५ ॥ __ङ अ ण न इत्येतेषां स्थाने व्यञ्जने परे अनुस्वारो भवति ॥ ङ । पक्तिः । पंती ॥ पराङ्मुखः । परंमुहो ॥ ञ । कञ्चुकः । कंचुओ ॥ लाञ्छनम् । लंछणं ॥ण । षण्मुखः । छंमुहो ॥ उत्कण्ठा । उक्कंठा ॥ न । सन्ध्या । संझा ॥ विन्ध्यः । विंझो ॥ २५ ॥ वक्रादावन्तः ॥ ८।१ । २६ ॥ वक्रांदिषु यथादर्शनं प्रथमादेः स्वरस्य अन्त आगमरूपोऽनुस्वारो भवति॥ वकं । तंसं । अंसु । मंस । पुंछं । गुंछं । मुंढा । पंसूं । बुंधं । कंकोडो । कुंपलं । दसणं । विछिओ। गिंठी । मंजारो । एप्वाद्यस्य ॥ वयंसो ।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy