SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सू. ८-२-१८०] स्वोपत्रवृत्तिसहितम् वरीभ्यां सिद्धम् ॥ भाषाशब्दाश्च । आहित्य । लल्लक्क । विड्डिर । पञ्चडिअ । उप्पेहड । मडप्फर । पड्डिच्छिर । अट्टमट्ट । विहडप्फड । उज्जल्ल । हल्लप्फल इत्यादयो महाराष्ट्रविदर्भादिदेशप्रसिद्धा लोकतोवगन्तव्याः ॥ क्रियाशब्दाश्च । अवयासइ । फुस्फुल्लइ । उप्फालेइ । इत्यादयः । अत एव च कृष्ट-घृष्ट-वाक्य-विद्वस्-वाचस्पति-विष्टरश्रवस्-प्रचेतस्-प्रोक्त-प्रोतादीनां विबादिप्रत्ययान्तानां च अग्निचित्सोमसुत्सुग्लसुम्लेत्यादीनां पूर्वैः कविभिरप्रयुक्तानां प्रतीतिवैषम्यपरः प्रयोगो न कर्तव्यः शब्दान्तरैरेव तु तदर्थोंभिधेयः । यथा कृष्टः कुशलः । वाचस्पतिर्गुरुः । विष्टरश्रवा हरिरित्यादि। घृष्टशब्दस्य तु सोपसर्गस्य प्रयोग इष्यत एव । मन्दर-यड-परिघटुं । तद्दिअस-निहट्ठाणङ्ग इत्यादि ॥ आर्षे तु यथादर्शनं सर्वमविरुद्धम् । यथा । घट्टा । मट्ठा । विउसा । सुअ-लक्खणाणुसारेण । वक्वन्तरेसु अ पुणो इत्यादि ॥ १७४ ॥ अव्ययम् ॥८।२।१७५ ॥ अधिकारोयम् । इतः परं ये वक्ष्यन्ते आपादसमाप्तेस्तेव्ययसंज्ञा ज्ञातव्याः ॥ १७५॥ तं वाक्योपन्यासे ॥ ८।२।१७६ ॥ तमिति वाक्योपन्यासे प्रयोक्तव्यम् ॥ तं तिअस-बन्दि-मोक्ख ॥ १७६॥ आम अभ्युपगमे ।। ८।२।१७७ ॥ आमेत्यभ्युपगमे प्रयोक्तव्यम् || आम बहला वणोली ॥ १७ ॥ णवि वैपरीत्ये ॥ ८।२।१७८ ॥ णवीति वैपरीत्ये प्रयोक्तव्यम् ॥ णवि हा वणे ॥ १७८ ॥ पुणरुत्तं कृतकरणे ॥ ८-२-१७९ ॥ पुणरुत्तमिति कृतकरणे प्रयोक्तव्यम् ॥ अइ सुप्पइ पंसुलि णीसहेहि अङ्गेहि पुणरुत्तं ॥ १७९ ॥ हन्दि विषाद-विकल्प पश्चात्ताप-निश्चय-सत्ये ॥८।२।१८०॥ हन्दि इति विषादादिवु प्रयोक्तव्यम् ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy