________________
४८
प्राकृतव्याकरणम् सू. ८-२-५८
वा विह्वले वौ वश्च ॥ ८।२।५८ ॥ विह्वले हस्य भो वा भवति तत्सन्नियोगे च विशब्दे वस्य वा भो भवति ॥ विब्भलो बिब्भलो विहलो ॥ ५८ ॥
वोर्खे ॥ ८।२। ५९॥ ऊर्ध्वशब्दे संयुक्तस्य भो वा भवति ॥ उब्भं उद्धं ॥ ५९ ॥
कश्मीरे म्भो वा ॥ ८।२।६० ॥ · कश्मीरशब्दे संयुक्तस्य म्भो वा भवति ॥ कम्भारा कम्हारा ॥ ६० ॥
न्मो मः॥ ८।२।६१॥ न्मस्य मो भवति । अधोलोपापवादः ॥जम्मो । वम्महो । मम्मणं ॥६॥
__ग्मो वा ।। ८।२। ॥६२ ॥ ग्मस्य मो वा भवति ॥ युग्मम् । जुम्मं जुग्गं ॥ तिग्मम् । तिम्म तिग्गं ॥ ६२ ॥ - ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये ो रः ॥ ८।२।६३ ॥
एषु यस्य रो भवति । जापवादः ॥ बह्मचेरं । चौर्यसमत्वाद् बह्मचरि। तूरं । सुन्देरं । सोण्डीरं ॥ ६३ ॥
धैर्ये वा ॥ ८।२।६४॥ धैर्य यस्य रो वा भवति ॥ धीरं धिज्जं । सूरो सुज्जो इति तु सूरसूर्यप्रकृतिभेदात् ॥ ६४ ॥
एतः पर्यस्ते ॥ ८।२।६५॥ पर्यन्ते एकारात्परस्य यस्य रो भवति ॥ पेरन्तो ।। एत इति किम् । पज्जन्तो ॥ ६५ ॥
आश्चर्ये ॥८।२।६६॥ आश्चर्ये एतः परस्य यस्य रो भवति ॥ अच्छेरं ॥ एत इत्येव । अच्छरिअं ॥६६॥